________________
भद्रङ्करोदाख्यविवृतिसहिता
एवं हि वन्ध्याया अपि सुतेन सम्बन्धः स्यात् ।
किञ्च विवक्षाशब्दो( ऽयं ।) वक्तुरिच्छायां वर्तते । इच्छा च पुरुषस्य पदार्थाऽनुरोधिनी न ( तु २ ) पुरुषेच्छाऽनु ३ रोधी पदार्थः । यदुक्तम् ४.. " उत्कृष्टं ५ नैव करणमन्यैस्तुल्यत्वदर्शनात् ।
प्रकर्षमित्थम्भूतस्य वदेत्कोऽत्र ६ ह्यबालिश" ॥ १ ॥ इति ।
__ भद्रकरोदया पत्तये तादृशाऽर्थसम्बन्धोऽपि विवक्षयैवेष्टव्य एवेति मनसिकृस्वाऽऽह-विवक्षात एवेत्यादि ।
ननु वन्ध्यादेरसताऽप्यर्थेन सुतादिना बौद्धोऽभिप्रेत एव सम्बन्धः, भन्यथाऽसामर्थ्यासमासाऽभावात्
" एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । कूर्मक्षीरचये स्नातः शशशृङ्गधनुर्धरः" ॥१॥
इत्याद्युक्ति नै सम्भवेदित्यपरितोषादाह-किश्चेत्यादिना । पदार्थ इति । ततश्च सतः सम्बद्धस्यैव चाऽर्थस्य विवक्षा सम्भवति न स्वसतः सतो वाऽसम्बद्धस्य । एवञ्चाऽसतोऽसम्बद्धस्य च प्रकर्षस्य विवक्षाऽसम्भवास्करणस्य स सुदुर्लभ इति भावः। तत्र प्राचः सम्वादमाह-उत्कृष्टमित्यादिना । १-२ () क० नास्ति । ३ ‘षाऽनु' क० । ४ 'तदुक्तम् । क. ' ५ 'उत्कृष्टं करणं नैवाऽन्यैस्तु तुल्यदर्शनात् । कनं नेच्छामभावस्य' इति क० । ६ “कोहि कुर्यादबालिशः' इति क० । ७ को वदेदिह बालिशः" इति म० ।
16