________________
कारकपरीक्षा
क्रियासिद्धिरेकस्याऽप्यभावे ६ न भवति । तदेकस्या ७ मनेकसाधनसाध्यायां (क्रियायां ८) कोऽस्याऽतिशयो येन करणं साधकतम स्यान्नाऽन्यानि ९ ? ।
उच्यते १.यदि नाम करणस्याऽतिशयो ११ नास्ति, तथाविवक्षितत्वाद् भविष्यति ।
किं सतो विवक्षाऽथाऽसतः ? । यदि १२ सतो विवक्षा, तदा प्रकर्षस्य सत्त्वं प्रदर्श्यताम् १३ । असतो विवक्षायामाऽसंस्पर्शित्वं शब्दस्य स्यात् । विवक्षात एवाऽतिशयसम्बन्धसिद्धिरिति चेत् , न ।
भद्रकरोदया वानामित्यर्थः । अतिशय इति । प्रकर्ष इत्यर्थः । तथाविवक्षितत्वा. दिति । प्रकृष्टोपकारकत्वेन विवक्षितत्वादित्यर्थः । सत इति । प्रकर्षस्येति शेषः । प्रदर्यतामिति । प्रकर्षोंऽस्तीत्युपपाद्यतामित्यर्थः । सामअधीनेत्यादयुक्तरीत्या उत्र प्रकर्षों नास्त्येवेति हृदयम् । अर्थाऽसंस्पर्शित्वमिति । योऽतिशयोऽर्थो विवक्षितस्तत्सम्बन्ध एव शब्दस्य नास्ति, करणपदवाच्यत्वेनेष्टे पदार्थे विवक्षितस्याऽर्थस्यातिशयरूपधर्मस्याऽसत्वात् । न. यमन् सम्बन्धमति । तदेवमतिशयविशिष्टोऽर्थः करणपदप्रतिपायो न स्यादिति भावः । नन्वसतोऽर्थस्य विवक्षया सिद्धिरिष्टा चेत् , तदुप
६ किया' इत्यनंतरं 'सिद्धिः' इत्यतःप्राक्चाऽस्ति, तथपि विवक्षितत्वाद् भविष्यति, किं सतोऽ' इत्यधिकः क. पाठः । ७ 'तदस्या' इति क० । ९ ‘स्यादिति क० । १० 'अत्रोच्यते । क० । ११ ‘करणस्याऽस्ति । क० । १२ 'तत्र यदि ' क० । १३ ‘दर्यताम् ' क० ।