________________
भद्रकरोदयाख्यविवृतिसहिता
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते । सर्वेषामेव भावानां विद्यते कर्तृलक्षणम् ॥ १ ॥ इति ।
ननु यत्प्रधानं २ तदुत्कृष्टमेवेति कर्तुः करणसंज्ञया भवि - ३ तंव्यम् । एकसंज्ञाऽधिकारे संज्ञाद्वयं न ४ भविष्यतीति चेत्, न ५ । क्रमेण स्यात् । तदुक्तम्
११३
भद्रकरोदया
इति । धातुनेति । तथा च प्रकृतधातूपात्तव्यापाराश्रयः कर्त्तेति निष्कर्षः । त एव कारकाणां सर्वेषामेव यत्किञ्चिधातूक्तक्रियावत्त्वेऽपि न क्षतिः । स च तादृशः प्रधानमेवेति प्रधानकर्तेत्युक्तमिति बोध्यम् । एवञ्च देवदत्तोऽस्तीत्यादावुक्तप्राधान्येऽविवादाद्देवदत्तादेः कर्तृत्वं समाहितम् ।
6 कडारा:
·
उत्कृष्टमेवेति । साधकतममित्यर्थः । भाव्यमिति । ' साधकतमं करणमितिसूत्रादित्याशयः । एकसंज्ञाऽधिकार इत्यादि । अयंभावः - ' भा कडारादेका संज्ञा' इति पा० सूत्रम् । कडारपदघटितसूत्रात् कर्मधारये ' इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया या पराऽनवकाशा चेति तदर्थः । कारकप्रकरणं चाssकडारीयम् । एवञ्चकस्यैकैव संज्ञा न संज्ञाद्वयमिति । क्रमेणेति । पर्यायेणेत्यर्थः । न तु पौर्वापर्येण । पूर्व प्रवृत्तसंज्ञाबलेन जातापा विभक्तेः पश्चाद्भाविना संज्ञासहस्रेणाऽप्यनुन्मूलनीयस्वात् फलाभावादेव पश्चात्संज्ञान्तरस्याऽप्रवृत्तेः संज्ञायाः फलवत्वनिय मात् । तस्मादुभयोः प्राप्तिसत्त्वाद् युगपदाकडारीयत्वात्पौर्वापर्येण च फला
,
१
'या' ग० ।
४ ' न' ग० नास्ति |
८
' यत् ' क० नास्ति ।
५ ' न' क० नास्ति ।
३ : ' भाव्यम् ' क० ।