SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदाख्यविवृतिसहिता तृतीयेदानीमवसरप्राप्ता विचार्यते-का पुनरियं तृतीया ?, 'टाभ्याम् भिस्' इति । तस्याः पुनरिदं १ लक्षणम्-कर्तृकरणयोस्तृतीये' ति (पा० ) ( " हेतुकर्तृकरणेत्थम्भूतलक्षणे" इति सि० हे०) अस्यायमर्थः-कर्तरि करणे च कारके तृतीया विभक्तिर्भवति २ । अथाऽत्र कः कती ? स्वतन्त्रःकती ' । ( किमिदं स्वातन्त्र्यम् ?, प्राधान्यमि ३ ति अमः) । तथा च वृत्तिकारः-अगुणभूतो ४ योऽर्थः क्रियासिद्धौ प्राधान्येन विवक्षितः ( स च ५ प्रधानकर्तेति ' )। ननु सामग्यधीना हि क्रियासिद्धिः, एकस्या अप्यभावे न भवति ६ । ततश्च सर्वेषामेव कारकाणां क्रियासिद्धावन्वयव्यतिरेकाभ्यां ७ तुल्यत्वात् कथमेकस्य प्राधान्यमितरस्य ८ गुणीभाव ? इति । उच्यते भद्रकरोदया 'विरुद्धं नैव कारकमि' त्यादि समाहितमिति । अगुणभूत इति । अस्यैव व्याख्यानं क्रियासिद्धावित्यादिरिति बोध्यम् ।। अन्यथा गुणीभूतत्वात् प्रयोज्यस्य प्रयोजकसन्निधाने कर्तृत्वं न स्यात् । क्रियासिद्धौ प्राधान्येन तु प्रयोज्योऽपि विवक्षित इति तस्याऽपि कर्तृत्वम् । तदुक्तं भाष्ये-"प्रयोजकव्यापारे सत्यपि स्वार्थदर्शनादिच्छायां सत्यां करोती" त्यादि विस्तरेणोपपादित कारकविवरणभद्रङ्करोदयायामिति तत्रैव द्रष्टव्यम् । प्रधानकर्तेति । प्रधानत्वात्कर्त्तत्यर्थः । सामान्यतः कर्तुः प्रस्तुतत्वात् , कर्तुः प्रधानगौणभेदाऽभावाच्चेति बोध्यम् । अन्वयव्यतिरेकाभ्यामिति । १ 'तल्लक्षणं चेदम् ' क० । २ 'क्तिः स्यातू ' क० । ३ () क. नास्ति । ४ 'योऽगुणरूपोऽर्थ ' इति क० । ५ () क० नास्ति । ६ 'सिद्धयति ' क । ७ ‘योस्तुल्य ' इति क०। ८ 'तु गौणी' इति क.
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy