SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११० कारकपरीक्षा ४ अवश्यं च १ कर्मणः स्वगतक्रियाकृतं कर्तृत्वमङ्गीकर्त्तव्यमेव २ । अन्यथा कर्मवत्सूत्रविधानमनुपपन्नार्थं स्यात् । तथाहि - तेन कर्मण: कर्तृभूतस्य कर्मवद्भावो विधीयते । यदि च कर्मणः स्वगता क्रिया न स्यात् तदा क्रियारहितः कथं ५ कत्ती स्यात् ? | कर्तृत्वाभावे ६ च तस्य कर्मवद्भावविधानमनुपपन्नं स्यात् । तस्मात् कर्मवद्भावविधानादवसीयते - ' ऽस्ति कर्मणोऽवयवक्रियेति । विकार्यप्राप्ययोरपि -- यो विकार्यते स विकृतो भवति यश्च प्राप्यते स प्राप्तिसहित ७ इति, तयोरपि स्वगतक्रियापेक्षया कारकत्वमविरुद्धमिति सिद्धं कर्मणः कारकत्वमिति विचारिता द्वितीया ॥ २ ॥ ፡ भद्रङ्करोदया " 6 खपुष्पस्य नित्यं न भवनम् आकाशस्य च नित्यभूततेति बोध्यम् । अन्यथेति । कर्मणः स्वगतक्रियाकृतकर्तृत्वाऽस्वीकार इत्यर्थः । कर्मवदिति । 'कर्मकर्मणा तुल्यक्रिय इति पा० सूत्रम् । कर्म किये का कर्मक्रिये' इति सि० हे० सूत्रम् । भावयन्नाह - तथ, हीत्यादिना । कर्मणस्तण्डुलादेः सौकर्य। तिशयादिना तद्गतक्रियाया एव पचादिधात्वर्थतया विवक्षणात्तदाश्रयस्य कर्तृभूतस्येत्याशयः । कथमिति काक्वा नैव स्यादित्यर्थः । क्रियाश्रयस्यैव कर्तृत्वादिति बोध्यम् । अविरुद्धमिति । एकक्रियापेक्षयैवैकत्र साध्यत्वसाधनत्वयोर्विरोधात् अत्र च स्वगतक्रियापेक्षया कारकत्वं मुख्य क्रियापेक्षया च साधनत्वमित्यविरोध इति " - · १ क० पुस्तके नास्ति । २ 'मङ्गीकरणीय' इति ग० । ३ ' विधान ' क० नास्ति । ४ नं ग० । ५ ' कत्ती न स्यात् ' क० । ६ ७ ' प्तिं सहते' इति क० । ८ ' इति ' , 'कर्तुरभावे तस्य ' क० । क० नास्ति !
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy