________________
भद्रकरोदयाख्यविवृतिसहिता
व्यापारभेदाsपेक्षायां करणत्वादिसम्भवः ॥ १ ॥
एवं च ' कटं करोती ' १ त्यस्याऽयमर्थः - कटमुत्पद्यमानमुत्पा
दयतीति । तथा चोक्तम्
करोति क्रियमाणेन न कश्चित् कर्मणा विना । भवत्यर्थस्य यः कर्त्ती करोतेः २ कर्म जायते ॥ १ ॥
( कटो ३ भवत्युत्पद्यते ) भवतेरुत्पत्तिवचनात् कटमुत्पद्यमानं ४ करोतीत्यर्थः । तेन भवत्यर्थस्य कर्तुः करोतेः ५ कर्मता । यद्ययं कटोऽनुत्पत्तिधर्मी स्यात्तदा न ( तं ७ ) देवदत्तः कर्तुं शक्नुयात् ८ । यथोक्तम्—
नित्यं ९ न भवनं यस्य यस्य वा नित्यभूतता ।
म तयोः क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ १ ॥
भद्रकरोदया
व्यापाराः संयोगादयस्तेषु तद्विषय इत्यर्थः । कर्तृत्वमिति । व्यापाराश्रयस्वादिति भावः | व्यापारभेदेति । व्यापारविशेषेत्यर्थः । लवनादिमुख्यध्यापारापेक्षायामित्यर्थः । क्रियमाणेनेति । उत्पद्यमानेनेत्यर्थः । भत एवाऽग्रे व्याख्यास्यते - " यद्ययं कटोऽनुत्पत्तिधर्म । स्यादि ” त्यादिनेति बोध्यम् । नित्यमिति । कदापीत्यर्थः । भवनमिति । उत्पद्यमानतेत्यर्थः । नित्यं यद्भूतं पृथिव्याद्यन्यतमं तद्भावो नित्यभूतता । नित्यत्वमिति यावत् ।
<
9 कटं करोति, तस्यार्थ ' इति क० । २ ' ति नास्ति ।
१०९
,
, क० । ३ क० " ४ कट उत्पद्यमानः, तमुत्पादयतीत्यर्थः ' इति क० यदि ' क० । ७ क० पुस्तके नास्ति । ९ 'नित्यत्वभावनायायस्याऽस्त्ये ' इति क० ।
८
८
क०
इति क० ।
15
६
पुस्तके
५ ' ति
(
>
शक्तः’