________________
कारकपरीक्षा
नास्तीति द्वयोरप्यभावः । इतरेतराश्रयत्वं च - कर्म क्रियामपेक्षते क्रिया च कर्मेति । विकार्यप्राप्ययोरपि विकार्यप्राप्यरूपता (क्रियासाध्या '), साध्यरूपत्वा २ त्साधनं नहि । तदेवं त्रिविधेऽपि कर्मणि कारकत्वमनुप ३ पन्नमिति । ___अत्रोच्यते-कर्तुः, क्रियया यदाप्तुमुत्पादयितुं विकारयितु । प्राप्तुं वेष्टतमं तत्कर्मेति । त्रिविधेऽपि कर्मणि स्वगतव्यापारोऽस्ति, सदपेक्षया कर्मणः ५ कारकत्वमविरुद्धम् । तथा च यदु ६ त्पद्यते तदुत्पाद्यते (इति • ) उत्पत्तिक्रियाकर्तृभूतस्य कर्मभावः । तथा मोक्तम्स्वव्यापारेषु कर्तृत्वं सर्वत्रवाऽस्ति कारके ।
. भद्रकरोदया साध्यरूपत्वादिति । तस्याः साध्यं तस्याः एव साधनं नहीत्यर्थः । अपेक्षाभेदेन साध्यवसाधनस्वयोः समावेशस्य प्रागुक्तत्वादिति बोध्यम् । यदाप्तुमिति । भाप्तमित्यस्यैव व्याख्यानमुत्पादयितुमित्यादीति बोध्यम् । यद्ध्बुस्पायते विकार्यते प्राप्यते च तत्सर्व क्रिययाऽऽप्यत एवेति नित्य रिकार्य प्रापंक्रिपयाऽऽप्तुमितममिति भावः ।
स्वव्यापारेष्विति । मुख्य लवनादिक्रियासिद्धौ स्वेषां वास्यादीनां वे
१ () एतदन्तर्मतः पाठः क० पुस्तके नास्ति । २ ‘साध्यत्वात् ' क. । ३.मुपा० । ४ (विकार - प्रापयितुं वेष्ट' इति क० । ५ ‘णि' क० । ६ 'यत्तावदु' क० । ७ क. पुस्तके नास्ति ।