SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०६ कारकपरीक्षा इदानीमन्यन्निरूप्यते-ननु कर्म कारकम् । कारकं च क्रियानिमित्तं भवति । इह च क्रियासाध्यं कर्म । कथं तत्साध्यं । तस्याः साधनं भवितुमर्हति ? । तत्रेदमुच्यते निर्वत्य कारकं नैव क्रिया तस्य हि साधिका । विकार्यमप्यभावेन विरुद्ध नैव कारकम् ॥ १ ॥ प्राप्यत्वात् पूर्विकाऽवस्था न सा कर्म बुधैर्मता । प्राप्याऽवस्था क्रिया साध्या साध्यत्वात्साधनं नहि ॥ २ ॥ ... .. भद्रङ्करोदया तीति शेषः । तत्साध्यमिति । क्रियया साध्यमित्यर्थः । अहंतीति काया नैवाऽहतीत्यर्थः । अन्योन्याश्रयापत्तेरिति भावः ।। निर्वर्त्यमिति । निर्वयं विकार्यमप्यभावेन, क्रियातः पूर्वमिति शेषः । अपिश्चाऽर्थे । नैव कारकम् । साधनमित्यर्थः । साधनं कारकमित्यभिमानः । क्रियातः पूर्वमभावे हेतुमाह-क्रियेत्यादि । यद्धि यस्य साधकं न तत्पूर्व तत्सम्भवः, सत: साधनाऽयोगादित्याशयः । ननु यस्य क्रिया साधिका तन्न कारकमिति कुत इति चेत्तत्राह-विरुद्धमित्यादि । साध्य कारकं चैकमेवेति विरुद्ध मित्यती नैव कारकमित्याशयः। प्राप्यत्वादिति । भने सेत्युक्तेति लभ्यते । साधनं नहीति । साध्यत्वसाधनत्वयो - १ साध्यमित्यस्याऽये “ तस्या" इत्यतः पूर्वम्-' यतः क्रियातः पूर्व क्रियाकृतविकाराऽभावे न विकार्यम् । तस्यैवाऽसम्भवात् । विरुद्धत्वेन न कारकम् । तस्याः साधनं भवितुं नाहती ' त्यधिको ग• पाठः । .
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy