SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यविवृतिसहिता " विचार्यते - का पुनरियं द्वितीया, ' अम् औ शसि ' तीयं द्वितीया । तस्याः पुनरेतल्लक्षणम् -' कर्मणि द्वितीया' ( पा० ) इति । कर्मणि कारके द्वितीया विभक्तिर्भवति । अथ किं कर्म ?, 'कर्तुरीप्सिततमं कर्म' (पा० ) ( कर्तुव्याप्यं कर्म ' ( सि० हे० ) कर्तुः क्रियया यद् व्याप्तुमिष्यते तमां १ तत्कारकं कर्मसंज्ञं भवति । तच्च त्रिविधं - निर्व विकार्य प्राप्यं चेति । तत्र निर्वत्य - यदसदेवोत्पद्यते । यथा ' कटं करोति, संयोगं 'जनयति' । यदाह- - २ सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाssश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ १ ॥ ननु ' सती नाश्रीयत' इति युक्तं ३ वक्तुम्, तस्या [आश्रयभद्रकरोदया " परिणामिनीति । प्राप्यमाणविकारेत्यर्थः । निर्वस्यत्वेनाऽविवक्षिता प्रकृतिरिति यावत् । यथा - " काशान् कटं करोति " । नात्र काशा निर्नयः । किन्तु परिणामिन एवेति कटस्य विकार्यकर्मा | काशानां तु करोर्द्विकर्मकत्वाद् गौणकर्मता । 'कपालान् घटांश्च करोति । अत्रोभयोर्निर्वर्त्यत्वमेव नत्वेकस्य निर्वर्त्यत्वमपरस्य च विकार्यत्वम् । समुच्चयबलेन निर्वत्र्त्यत्वेनैवोभयत्र विवक्षाऽवगमात् । कपालान् घटान् करोतीति स्वार्थिकार्थ इति ध्येयम् । * १ ' यदाप्तुमिष्टतममि ति क० पाठः " ३ ' इत्ययुक्तमुक्तमि' ति क० पाठः । १०३ “ तदाह ' इति क० पाठः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy