SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२ कारकपरीक्षा ३ अत्रोच्यते १ - लोकप्रयुक्तानां शब्दानामिदमन्वाख्यानम् । लोके वाक्यमित्थं २ प्रयुज्यते, तस्य सम्पूर्णार्थप्रतिपादकत्वेन निराकाङ्क्षतयाऽर्थक्रियाऽर्थिनां च प्रवृत्तिहेतुत्वात् । वाक्याच्चाऽपोद्धृत्य ४ पदमन्वाख्यायते । तत् कर्मदिषु कारकेष्वनभिहितेषु द्वितीयादयः कर्त्तव्याः, (अभिहितेषु कर्मादिषु प्रथमेति । एवं विभक्तीनां विषयविभागः । अत एवोक्तं भाष्यकृता - ' अभिहितो योऽर्थः स सम्पन्नः प्रातिपदिकार्थ:' इति । अस्या ) ऽयमर्थः - सोऽर्थः कर्मादिरभिहितो यदा भवति तदाऽन्वय प्रातिपदिकार्थो यः स विद्यमानेष्वपि कारकेषु प्रथमाया वाच्यतया ५ सम्पन्नः, ( यदा पुनः ) सोऽर्थः कर्मी दिलक्षणो नाऽभिहितो ६ भवति तदा द्वितीयादिभिस्ततो भवितव्यमिति विद्यमानोऽपि ७ प्रातिपदिकार्थः प्रथमया वाच्यो न भवति । कर्मादीनि ९ कारकाण्येव बाच्यानि भवन्ति न प्रातिपदिकार्थः । उक्तेषु कर्मादिषु प्रातिपदिकार्थः सम्पन्नः । प्रथमया १० वाच्यत्वेनेति शेषः । इति प्रथमाविचारः ॥ १ ॥ एवं पूर्वोक्तपरम्परया ११ प्रथमां विचार्येदानीमवसरप्राप्ता द्वितीया • ( १ 'अत्र प्रतिविधीयते ' इति ग० पाठः । २ ' मेव ' इति कं० पाठः । ३' बिना वृत्ति' इति ग० पाठः । ४ च्त्रोपो " इति क० पाठ: । ( ) एतदन्सर्गतः पाठः । क० पुस्तके नास्ति । • • 'प्रथमावाचकतया ' इति क० पाठः । ६ 'अनभि' इति क० पाठः । ७ मेऽवि' इति क० पाठः । ८ ' माया' इति क० पाठः । १ 'दिया' इति क० पाठः । १० 'माया' इति क० पाठः । ११ एवं मनमा विचारिता, द्वितीनेदानीं विचार्यते इति क० पाठः । "
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy