________________
भद्रङ्करोदयाख्यविकृतिसहिता
०१
व्यवस्था तावतोऽर्थस्य तदाहुरभिधायकम् ॥ १॥ सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते । वाक्यार्थमेव तं प्राहुरनेकपदसंश्रयम्" ॥ २ ॥ इति
वृत्तौ कृत्तद्धितान्ते यद्यपि पदान्तरयोगोऽस्ति । तथापि तत्र विशेषणविशिष्ट एवाऽर्थो विभक्तयाऽन्वयीति तावानेव तत्र तत्र प्रातिपदिकार्थो नाऽतिरिक्तः । तेन प्रातिपदिकार्थ एव प्रथमा सिद्धा । यो यमर्थ न व्यभिचरति स तस्य प्रातिपदिकार्थः । तथा चोक्तं भाष्यकृता- 'अन्वयी प्रातिपदिकार्थ' इति । यो यावन्तमर्थ न व्यभिचरति, यस्य यावानेवाऽर्थोऽन्वयी तस्य तावानेव प्रातिपादिकार्थों न व्यतिरिक्त इत्युच्यते ।
अन्यदिदानीमभिधीयते-ननु यद्यन्वयी प्रातिपदिकार्थस्तदासी सर्वेषु विभक्त्यर्थेषु विद्यत इत्यङ्गीकर्तव्यम् । कथं नामा (न्यथा)ऽन्धी स्यात् ? । एवं चाऽन्वयिनो वस्तुमात्रस्य प्रातिपदिकार्थस्य सर्वत्र प्रतक्तत्वात्तन्मात्राश्रया प्रथमाऽन्तरङ्गत्वात् । द्वितीयादयस्तु कास्कविभक्तयः क्रियापदाऽपेक्षत्वेन बहिरङ्गाः । 'करोति, कटेन कृतमि' त्यादौ यावदेव करोत्यादि (क्रिया) पदं न प्रयुज्यते तावदेव कटशब्दादन्तरइत्वात्प्रथमया भवितव्यम् । ( इत्यन्तरङ्गत्वात्प्रथमया १) सकलो विषयो व्याप्तः । क्वेदानी द्वितीयादिभिर्भवितव्यमिति विधानमिदं २ (सर्वनकुलीभूतं वर्तते ।
५ () एतदन्तर्मतः पाठः क० पुस्तके नास्ति २ 'विभक्ति विचारोऽयमाकुळीलो । इति कर-पः ।
।