________________
भद्रङ्करोदाख्यविवृतिसहिता
थीन्तराऽपेक्षा, अतः प्रथमया न भवितव्यम् । प्रातिपदिकार्थाऽभावात् । किं च ' स्थाणु वी पुरुषो वे ' ति संशयातिरिक्तः प्रातिपदिकार्थः । गौरिव गवयः' इत्यत्रोपमानाऽतिरिक्तः, 'नीलमुत्पलम् , कष्टं श्रितः, शङ्कुलया खण्डः, कुबेराय बलिः, वृकेभ्यो भयम् , राज्ञः पुरुषः, अक्षेषु शौण्डः' इत्यादौ विशेषणविशेष्यमानाऽतिरिक्तः प्रातिपदिकार्थ इत्ययुक्तं १ प्रथमया भक्तुिम् । किञ्च ‘वाक्यसमानार्थी वृत्तिरि 'ति सर्वत्र समासे विशेषणविशिष्ट एवाऽर्थोऽभिधीयते इति समासात्प्रथमा न प्राप्नोति । किंच कृत्तद्धितयोः सम्बन्धाऽभिधानं (भावप्रत्ययेने) ति सम्बन्धाऽतिरिक्तवृत्तेः कृदन्तात्तद्धितान्ताच (स्वतापन्तात् ) प्रथमया न भवितव्यम् । किं च 'देवदसः पचती त्या कर्तरि ‘पच्यते ओदन' इति कर्मणि र चाऽतिरिक्त प्रथमा न स्यात, मातृशब्दे च । अतिरिक्तनिषेधादिति ।
अत्रोच्यते यतोऽर्थोऽन्वयी (ततः स) प्रातिपदिकार्थोऽन्धयव्यतिरेकसिद्धः । तथा चोक्तम्-' यदनुवृत्तौ योऽनुवर्तते यन्निवृत्तौ यो निवर्त्तते' इत्यन्वयव्यतिरेकाभ्यां यस्याभिधानशक्तिरवधारिता स
.
भद्रकरोदया अतिरिक्तनिषेधादिति । अतिरिक्तस्याऽधिकस्य निषेधादर्जनादित्यर्थः । 'प्रातिपदिकार्थ' इत्यादिसूत्रे. मात्रग्रहणेन प्रातिपदिकार्थमात्रे प्रक्षमेत्यर्थात् तदधिकस्य वर्जन लभ्यते इति । ... १ 'इत्युक्तं ' इति क. पाठः। २ 'कर्माऽतिरिक्त इति क० पाठः
-
-
-
-
-