SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ... कारकपरीक्षा . उच्यते-यो येनाऽभिधीयते स तस्याऽर्थः। जात्यादिवि. शिष्ट एवाऽर्थो जातिशब्दादिभि: रभिधीयते । जात्याद्यपेक्षा तु स्वार्थ एवाऽपेक्षिता । जात्यादिविशिष्ट एव तेषामर्थो नार्थान्तरं जात्यादय इति तदर्थाऽपरित्यागात् । (प्रथम )प्रवृत्तौ यन्निमित्तमपेक्षते तद्विशिष्ट एव तस्याऽर्थ इति नाऽर्थान्तरं भवति । यत्पुनः क्वचिदर्थे वर्तित्वारपुनरर्थान्तरे वर्तितुं निमित्तमुपादीयते तदर्थान्तरमिह द्रष्टव्यम् । ... यद्येवं गौ वाहीकः, सिंहो माणवकः' इत्यत्र गोशब्दो गवि वर्तित्वा सिंहशब्दश्च स्वार्थे वर्तित्वा पुनरान्तरे वर्तते । अस्त्य भद्रकरोदया ___ तदर्थाऽपरित्यागादिति । एवं च यदर्थो यद्विशिष्ट एव भवति न च परित्यजति स्वार्थ एवाऽपेक्ष्यते च स तदर्थ इत्याशयः। नन्वेवं गुणविशिष्ट पूर्व द्रव्यशब्दार्थो गुणस्य कदाप्यपरित्यागादिति गुणो द्रव्यशब्दस्य पदार्थ मापद्यते इति चेत्तत्राह-प्रथमप्रवृत्तावित्यादि । गवादयः शब्दा हि प्रथमप्रवृत्तौ गोत्वायेव निमित्तमपेक्षन्ते, तद्विशिष्टा एव च तदी इति नाथान्तरम् । द्रव्यशब्दश्च प्रथमप्रवृत्तौ द्रव्यत्वमेव निमित्तमपेक्षते नतु गुणं क्रियादिभिर्विनिगमनाविरहादिति तत्र गुणादिर्न द्रव्यशब्दार्थः । प्रथमेतिप्रवृत्तिविशेषणफलमाह-यत्पुनरित्यादिना। यथा द्रव्यशब्दो द्रव्यत्वविशिष्ट वर्तित्वा प्रयोजनवशाद् गुणविशिष्टे वर्तितुं गुणं निमित्तमपेक्षत इति गुणोऽथीन्तरमिति न गुणविशिष्ट इति द्रव्यशब्दार्थः, किन्तु दम्यत्वविशिष्ट एवेति । .. . १ ‘शन्दैरभि' इति क० पाठः । २ 'वर्तित्वात् । इति क० पाठः । एवमग्रेऽपि ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy