________________
भद्रङ्करोदयाख्यविवृतिसहिता
भविष्यदत्यन्ताऽसद्वा चाऽभिधयसत्तां न व्यभिचरति । भाष्यकृताऽप्युक्तम्-" न पदार्थः सत्तां व्यभिचरति "। वस्तुसत्तापक्षे भाष्यवचनमिदमनुपन्नं स्यात् , पदार्थस्य वस्तुसत्ताव्यभिचारात् ' नष्टो घट' इत्यादौ प्रयोगे । एवमभावः सत्ता विचारितः । - 'यत्राऽर्थान्तरनिरपेक्षा शब्दस्य वृत्तिः स शब्दार्थ' इति न्यायः । अत्रोच्यते--जातिशब्दानां गवादीनां जात्यपेक्षा द्रव्ये वृत्तिः, गुणशब्दानां शुक्लादीनां गुणापेक्षा, क्रियाशब्दानां पाचकादीनां क्रियापेक्षेत्यस्त्यान्तरापेक्षा तेषामिति तद्वाचिभ्यः प्रथमया न भवितव्यमिति ।
भद्रकरोदया वस्तुसत्ताव्यभिचारादिति । नष्टो घटो हि पदार्थ:-पदजन्योधनिय. योऽस्ति, नतु वस्तुत्वेन सन् , नाशादिति वस्तुसत्ताया भभावेऽपि पदार्थसत्तेति पदार्थो वस्तुसत्ताव्यभिचारीति ।
यदुक्तमभिधेयार्थस्य विद्यमानतेति । तत्र शब्दाभिधेयःकोऽर्थ इति जिज्ञासानिवृत्तये शब्दार्थ परीक्षमाण गाह-यत्रेत्यादिना ।
द्रव्ये वृत्तिरिति । एतद् गुणापेक्षेत्यत्र क्रियापक्षेत्यत्र । सम्बन्धः नीयम् । तेषामिति । जातिशब्दादीनामित्यर्थः । तद्वाचिभ्य इति । गवादिवाचिभ्य इत्यर्थः । न भवितव्यमिति । उक्तरीत्या मवादीनां शब्दा. र्थत्वाऽभावादभिधेयसत्तारूपनामाथीऽभावादिति भावः ।
१ ‘एवं सत्ताभावो विचारित ' इति क० पाठः ।