________________
९६
कारकपरीक्षा
भविष्यती' ) त्यादौ प्रथमा न स्यात् । ( नष्टाऽनुत्पन्नयोः ६ सत्ताsभावात् । ' अङ्कुरो जायत' इत्यादौ च प्रथमा न स्यात् ) सतो जन्माऽभावात् ।
अत्रोच्यते – नेह वस्तुसत्ताऽभिप्रेता, किं तर्हि ?, अभिधेय(सत्ता) = अभिधेयभूतस्याऽर्थस्य विद्यमानता । सा चाऽभावशशविषाणादिशब्दानामपि विद्यते । तथा चोक्तं न्यासकृता - " अभावोऽप्यभिधेयो भवत्येव । अन्यथा हि अभावादिवचनमनुच्चारणीयं १ स्यात् । नहानर्थकं वचनं प्रयोगमर्हति । अर्थप्रत्यायनाय (हि) शब्द: प्रयुज्यते । स चेह नास्ति, किं प्रयोगेण ? । अस्ति चाऽभावादिशब्दानां प्रयोगः । ततो निश्चीयते विपश्चिताऽभावोऽप्यभिधेय " इति । ९ भूत
भद्रकरोदया
चाsभाव एवाऽर्थ इति तत्र
सत्ताया अभावात्तस्या नाऽभावादिनामार्थस्वमिति सत्ताया अभाव इति भावः । नष्टेऽनुत्पन्ने चाऽऽश्रयाऽभावः देव सा नास्ति । क्रमरूपस्य संहार इत्यादयुक्तरीत्या नित्यसत्ताऽमिन्नघटादे - तीतानागतत्वयोरभावाच्च नष्टः पट " इत्यादिवाक्यानामेवाऽसम्भवः स्यात् । एवम् ' अङ्कुरो जायत' इत्यादावप्युपपादनीयम् ।
""
अभिधेयसत्तेतिपदार्थ विवृण्वन्नाह - अभिधेयभूतस्येत्यादि । बोधविषयतयेति शेषः । साचेति । उक्तप्रकारा सत्ता चेत्यर्थः । अभावादिवचनस्याऽनुच्चारणीयत्वे युक्तिमाह – नानर्थकमित्यादि ।
"
१ अभवदिति वचनमुच्चारणीयमिति क० पाठः । २ ' भूतभविष्यदुत्पन्नं सद्वा वस्त्वभिधेयं यत्सत्तया न व्यभिचरती ' ति क० पाठः ।