SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९४ कारकपरीक्षा सप्त विभक्तयो गृह्यन्ते । । तत्र प्रथमा प्रथममवगता तावद्विचार्यते । का पुनरियं प्रथमा ?, 'सु औ जसि ' ति । तस्याः पुनरेतल्लक्षणम्'प्रातिपदिकार्थे 'त्यादि । तत्र अद्वयवादिनामेतदर्शनम्-' सत्ता प्रातिपदिकार्थ' इति । तथा चाहुः २–'सत्ता नाम काचिदनादिनिधनरूपा नित्यत्वेन व्यवस्थिता संर्वशब्दरभिधीयत ' इति । तदुक्तम् सम्बन्धि-भेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥१॥ भद्रङ्करोदया वचने “सु" इत्यस्य स्थाने “सि" इत्यस्य प्रातिपदिकपदार्थे नामपदस्य च व्यवहारः । प्रथममवगतेति । सप्तसु विभक्तिषु प्राथम्यादादावुपस्थितेत्यर्थः । प्रतीत्यादि । 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' इति पा० सूत्रम् । 'नामार्थे प्रथमा' इति सि० हे. सूत्रम् । कः प्रातिपदिकार्थ इत्याकाङ्क्षायामाह - सत्ता प्रातिपदिकार्थ इति । का सत्तेति जिज्ञासानिवृत्तये आह-सत्ता नामेति । काचिदिति । स्वरूपतोऽ. निर्वचनीयेत्यर्थः । ताटस्थ्येन लक्षयन्नाह-अनादिनिधनरूपेत्यादि । आदिश्च निधनं चाऽऽदिनिधने, अविद्यमाने ते यस्य तत्तादृशं रूपं यस्याः सा तादृशी। अनायनन्तेत्यर्थः । प्रागभावाऽप्रतियोगित्वे सति ध्वंसाऽप्रतियोगिनीत्यर्थः । नित्यत्वेन व्यवस्थितेति । कूटस्थरूपेत्यर्थः । उपचयाऽपचयरहिताऽभिन्ना चेति यावत् । नन्वेवं घटपटादिपदार्थानामैक्यमापद्यत इति चेत्तत्राह-सम्बन्धिभेदादित्यादि । एवंच जातिभेदात्पदार्थभेदः । जातिश्च गवादिसम्बन्धिभेदात्कल्पितमेदवती सत्तैव । तादृश्यामेव च सत्तायां शब्दा १ 'युज्यन्ते' इति क० । २ ' तथा च तेषां दर्शनम् ' इति क० ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy