________________
कारकविवरणम्
ननु कटादेः क्रियामामत्वयोऽपि दुरुपपादः, तस्या अपि पदार्थैकदेशत्वादविगृहीतत्वेन न्यग्भूतत्वाच्चेति चेन्न । क्रियाऽन्वयविषये ' पदार्थः पदार्थेनाऽन्वेति, न तु पदार्थंकदेशेने' ति व्युत्पत्त्यस्वीकारात् । विगृहीताया इवाविगृहीताया अपीतरत्राऽन्वये बाधकाऽभावाच्च । यदुक्तम् -
"अविहा गतादिस्था यथा प्रामादिकर्मभिः ।
क्रिया सम्बध्यते तद्वत्कृतादिषु स्थिते" ति ॥१॥ यतूक्तं हरिणा
“विशेषकर्मसम्बन्धे नि केऽपि कृतादिभिः । विशेषनिरपेक्षोऽन्यः कृतान्दः प्रवर्तते" ॥१॥ "भकर्मकरवे सत्येवं कान्तं भावाऽभिधायि तत् ।
ततः क्रियावता की योगो भवति कर्मणाम् ॥२॥ इति । अत्रेदं चिन्त्यम्-कारकाणां क्रियायामेवाऽन्वयः, पश्चात्तेषां परस्परं पार्टिकोऽन्वयः। क्रियाऽन्वयाऽभावे च न कारकत्वम् , कारकमिति महासंज्ञाकरणबलात्करोति क्रियां निवर्तयतीति व्युत्पत्त्या क्रियान्वयिन एव कारकत्वलाभात् । अकर्मकत्वे च भावे ते न कटस्य क्रियाऽन्वय इत्यायातम् । अन्यथाऽकर्मकत्वमेव न स्यात् । क्रियावता की चन काऽन्वयः, क्रियाऽन्वयाऽभावेन कर्मत्वस्यैवाऽभावात्कारकाणां क्रियान्वयनियमाच । एवञ्च क्रियाऽन्वयं विना न पाष्ठिकोऽन्वयोऽपि ।
एवञ्चदं बोध्यम्- कृतः कट इत्यादौ कटेन कर्मसम्बन्धो १ क्रियाया इत्यर्थः । भविगृहीतत्वेन विशेषणत्नेन ।