SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् निर्भुक्तः । स एव तादृशः कर्मत्वशक्तिमान् कटशब्दः कृतपूर्वीत्यनेनाऽन्वेति । न तु कृतपूर्व्यादिपदार्थक्रियाऽन्वयेन कर्मत्वं तस्य । अन्यथाऽकर्मकत्वाऽभावाद भावे तो न स्यात् , कटशब्दाद् द्वितीया च न स्यात् । । अत एवोक्तं ततः क्रियावता का योगो भवति कर्मणामि' ति । नन्वेवमस्त्वन्वयः, द्वितीया तु कथम् , कृतेति क्तेन करकर्मण उक्तत्वादिति चेन्न । कृतपूर्वीत्यनेनाऽन्वये कृतसम्बन्धस्य तिरोधानादेत त्सम्बन्धस्य चोदभूतत्वात्कटकर्मणो गौणत्वात्तद्विधानात् । अत्र च कटशब्दाद्वितीयाविधाने कः प्रकार उपादेय इत्यत्र सुधिय एव प्रमाणम् । इति कारकविवरणे श्रीतपोगच्छाधिपतिशासनसम्राट्कदम्बगिरितालध्वजराणकपुरकापरडायनेकतीर्थोद्धारकाचार्यश्रीविजयनेमिसूरीश्वरप. हालङ्कारसमयज्ञशान्तमूाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधिप्राकृतविद्विशारदाचार्यवर्यश्रीविजयकस्तरसूरीश्वरशिष्यरतप्रख्यातव्याख्यातृकविरलपन्यासप्रवरश्रीयशोभद्रविजयगणिवरशिष्यपन्यासश्रीशुभकरविजयगणिविरचितभद्राकरोदयाभिधा टीका समाप्ता ॥ १ कटेत्यस्य न क्रियायामपि तु कृतपूर्षीत्यत्राऽन्धयादेवेत्यर्थः । क्रियाऽन्यये ‘क्रियावता का योग' इत्युक्तिरसङ्गता स्यादिति भावः । २ कृतपूर्वीत्येतत्सम्बन्धस्यैत्यर्थः । । इति कारकविवरणे प्रख्यातव्याख्यातृकविरमपन्यासप्रवरभीयतामहविजयगणिवरशिष्यरत्नविपश्चिदपश्रिमपन्यासप्रवरश्री भरविजयगणिवर शिष्य---. मुनिसूर्योदयविजयविरचितं प्रभानाम टिप्पणं समासम् ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy