________________
०८
कारकविवरणम्
स्पष्टं प्रतिपादनात् । एवञ्च परम्परया क्रियाऽन्वयाद गौणकर्मतेत्यपि समाहिता। पाठिकाऽन्वयेन च गुणद्रव्यतेत्याहुः ।
पक्त्वौदनो भुज्यते देवदत्तनेत्यादौ तु पचिक्रियाकर्मणोऽनुक्तावपि भुजिक्रियाकर्मण उक्ततया व्यवहाराणां प्रधानाऽनुयायित्वात्प्रथमैव । नोकत्र विभक्तिद्वयमेकदा भवितुमर्हति । एवञ्चेशस्थलेषु व्यवहाराऽनुरोधादेव व्यवस्था । तथा चोक्तम् -- .
"प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।' शक्ति गुणाश्रया तत्र प्रधानमनुरुध्यते ॥१॥ . प्रधानविषया शक्तिः प्रत्ययेनाऽभिधीयते " इति ।
यत्तु ‘भावाऽभिधायिना क्त्वाप्रत्ययेनौदनाऽधिकरणाऽप्रधानपचिक्रियाविषया कर्मशक्तिरनभिहिताऽपि प्रधानभुजिक्रियाविषयाऽऽत्मनेपदेनाऽभिहितेति २ तद्वत्प्रकाशमाना द्वितीयोत्पत्तौ निमित्तं न भवती' ति समाधानम् । तन्नाऽतिमनोज्ञम् । नहि या पचिक्रियाविषया सैव भुजिक्रियाविषयाऽपि कर्मशक्तिः । शक्तेर्निरूपकभेदेन भेदात् । अत एव-यत्र पुनरेकद्रव्याधारा प्रधानाऽप्रधानक्रियाविषयाऽनेका शक्तिरि' त्युक्तम् । शक्तेरभेदे. 'ऽनेके' ति कथनाऽसङ्गतेः । नवैकत्र
१ नन्वेवं गुणानामपि साक्षाक्रियान्वये 'गौणं कर्म मुख्य कर्मे' त्येवं गौणमुख्यन्यवहारो न स्यात्सर्वत्र मुख्यकर्मत्वस्यैव सत्त्वादित्यत आहपार्टिकान्वयेनेत्यादि । गुणद्रव्यता = विशेषणविशेष्यभावः गौणमुख्यतेति यावत् ।
२ अभिहितवदित्यर्थः ।