SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् शब्देनैव पूरणात् । शब्दानुपस्थितस्य शाब्दबोधे भानाऽङ्गीकारेऽतिप्रसङ्गापत्तेः । नन्वत्र भीष्मस्यैव विशेष्यत्वेन विवशेति तस्यैव साक्षात्क्रियान्वयो ' गां दोग्धी' तिवदिति चेत्, एवं तर्हि प्रत्येकं पृथक् साक्षात्क्रियाऽन्वयेन कर्मत्वमुपपाद्य पश्चादाकाङ्क्षादिवशात्पदान्तरसम्बन्धो जायताम्, का हानि: ?, अलं भीष्मादीनां द्वितीयाद्यर्थ परमुखप्रेक्षिकया । एवञ्च भाष्यमपि न विरुध्यते । १ अत एवात्र पक्षे बृहद्वृत्तौ न निर्भरः । यतश्वोक्तं तत्रैवाऽग्रे - ' कृतः कटो भीष्म उदारो दर्शनीय' इत्यादौ तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया सम्बन्धस्तस्य तस्य साकल्येन कर्मत्वमभिदधातीति क्वचिदपि द्वितीया न भवती 'ति । यदि हि गुणानां क्रिययाऽसम्बन्ध एवेष्टः स्यात्तर्हि ' यस्य यस्य तया क्रियया सम्बन्ध ' इति कथमभिदध्यात् ? । परेतु-न द्रव्यस्यैव साक्षात्क्रियाऽन्वय इति न गुणानां कारकत्वमिति युक्तम् । परम्परयाऽपि क्रियाऽन्वये कारकत्वात् । अन्यथाऽधिकरणस्य कंत्रीद्यन्वयद्वारैव क्रियाऽन्वयात्कारकत्वं न स्यात् । गुणानां परम्परया क्रियान्वय इत्यपि न युक्तम् । 'यथैव सौ कटं करोत्येवं भीष्ममपी' ति भाष्याद् गुणानामपि साक्षात्क्रियान्वयस्य १ विशेषणानां द्रव्यकर्मत्वेनैव याचितमणिमण्डनन्यायेन द्वितीयेत्यादि पक्षे इत्यर्थः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy