SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् ८ . अत्रेत्थं विचार्यताम्-' नीलघटानयने नीले गुणे नाऽनयनाऽन्वय इति न वक्तुं शक्यम् । ततश्च द्रव्ये इव गुणेष्वपि क्रियान्वयाप्रत्येकं पृथक् क्रियाव्याप्यतया द्रव्यवाचकादिव गुणवाचकादपि द्वितीया न्यायसिद्धा। पश्चाच्च पाठिको विशेषणविशेष्यमावेनाऽन्वयः । यदि तु गुणादिषु न साक्षाक्रियान्वयः, किन्तु द्रव्यद्वारा । एवं च द्रव्यस्यैव मुख्यकर्मत्वमिति तस्मिन्नुक्ते गौणकर्मणोऽनुक्ततया 'नीलं घट आनीयते' इत्यादिप्रयोगापत्तिरिति विभाव्यते । अत्रेदं द्रष्टव्यम्-' न केवला प्रकृतिः प्रयोक्तव्या नाऽपि केवलप्रत्यय' इति नियमादविभक्तिकावां प्रयोगानहत्वात्समानविभक्तिमन्तरेण च सामानाधिकरण्येन विशेषणत्वाऽयोगात्-क्रियासु साक्षादन्वयेन द्रव्यस्यैव कर्मत्वेऽपि अकर्मणामपि विशेषणानां द्रव्यकर्मत्वेनैव याचितमणिमण्डनन्यायेन द्वितीया । धनिकमित्राणां स्वयं निर्धनत्वेऽपि तदेकयोगक्षेमत्वात्तद्धनिकधनेनैव फलभाक्त्ववद्वेति । परमत्र पक्षे-' कटोऽपि कर्म भीष्मादयोऽपी'ति भाष्यं स्पष्टमेव विरुध्यते इति विशेष'णानां कर्मत्वे गौणमुख्यतावार्ताऽकर्मत्वे भाष्यविरोध इति सेयमुभयतः पाशारज्जुः । .. किश्च कटादिद्रव्ये प्रकरणादिना लभ्ये भीष्मं करोतीति प्रयोगानापत्तिः, भीष्मस्य गुणत्वात्स्वतोऽकर्मत्वाद् द्रव्याऽनुक्तेस्तत्कर्मणा कर्मत्वस्याऽपि वक्तुमशक्यत्वाच्चेति वृक्षात्पतिते मुद्गरप्रहारः । न च प्रकरणादिना लब्धेन द्रव्येण निर्वाहः । शाब्दया आकाङ्क्षायाः
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy