________________
कारकविवरणम्
शक्तरुक्तावपि मुख्याऽऽसिक्रियाऽधिकरणत्वस्याऽनुक्तत्वात्तत्र सप्तमीविधानात् । व्यवहाराणां प्रधानानुयायित्वात् ।
यद्यपि प्रासादे आस्ते इत्यादौ । तथा सम्भवेऽपि आसन आस्त इत्यादौ कृदन्ताऽऽख्यातवाच्याऽऽसिक्रियैकैव, क्रियायाः कारकभेदात्फलभेदादेव च भेदात् । अत्र च कतुर्देवदत्तादेरविकरणद्रव्यस्याऽकर्मकाणां फलमात्रवाचकत्वपक्षे फलस्य चाऽभेदात् । नाऽप्यधिकरणता भिन्ना, तस्या निरूपकभेदेन भेदात् । अत्र च तन्निरूपकक्रियाया ऐक्यात् । एवञ्चोक्तस्थले सप्तमीविधाने विहितं समाधान न मनःसमाधयेऽलम् २ । तथाप्यासनमास्ते इत्यनेनो ३ तार्थाऽनभिधानात्कृदन्तवाच्याऽऽसिक्रियासामान्यनिरूपिताया अधिकरणत्वशक्तेरुक्तावपि शब्दशक्तिस्वाभाव्यादाख्यातवाच्यकर्तविशेषवृत्त्यासिक्रियाविशेषनिरूपितायास्तस्याः सामान्यातिदेशे विशेषाऽनतिदेशवदनुक्ततया तत्र यथाकथञ्चित्सप्तमी समाधेया ।
अथ " चरमजिनं श्रीवीरं वन्दे करुणागारं त्रातारमि" त्यादी त्रातृत्वादिगुणविशिष्टस्य श्रीवीरस्य वन्दनक्रियाव्याप्यतया ततो जातया द्वितीयया कर्मण उक्ततयोक्तरीत्या चरमजिनादिपदाद्वितीया नोपपद्यते इति चेत् ।
१ तत्र हि प्रसत्त्यासनक्रिययोर्भेदात् 'प्रधानेन हि व्यपदेशा भवन्ती' त्याश्रित्य प्रधानक्रियाऽपेक्षाधिकरणत्वनिमित्तकसप्तमीसम्भवेऽपीत्यर्थः ।
२ गौणमुख्यव्यवहारस्य भेदनियतत्वादभिन्ने तदभावान्मुख्यक्रियापेक्षाधिकरणत्वनिमित्तकसप्तमीत्येवं वक्तुमशक्यत्वादिति भावः ।
३ आसनमास्त इति वाक्येन 'आसने आस्ते' इत्यानभिधानादित्यर्थः।