________________
कारक विवरणम्
एवञ्च सर्वत्र प्रथमैव प्राप्नोतीति वाच्यम् । एवमेतत् । किन्त्वनभिहितासु सतीषु तासु विशेषविधानबलाद् द्वितीयादीनां भावात् ।
८४
जैनेनेति । क्रियत इति कर्मणि प्रत्यय इति कर्मण उक्तत्वाइयेति प्रथमा । कर्तुश्चाऽनुक्तत्वाज्जैनेनेति तृतीया । स्नानीयमिति । स्नात्यनेनेति व्युत्पत्तिप्रदर्शनेन कृत्वा स्त्रानीयमित्यत्राऽनीयप्रत्ययेन करणार्थस्योक्तता प्रदर्शिता । एवञ्च स्नानीयं चूर्णमित्यादौ करणाच्चूर्णात्तृतीया न भवति, किन्तूक्तरीत्या प्रथमैव । एवं दानीयः साधुरित्यादौ न चतुर्थी, अनीयप्रत्ययेन सम्प्रदानार्थस्योक्तत्वात् । अत एव दीयतेऽस्मै इति विग्रहः प्रदर्शितः । भीम सिंह इत्यादौ न सिंहपदात्पञ्चमी, फलकमासनमित्यादौ न फलकपदात्सप्तमी । अपादानाऽधिकरणयोरर्थयोरुक्तत्वज्ञापनार्थं बिभेत्यस्मादित्यास्यते यस्मिन्निति च विग्रह उक्तः । गोमांश्चैत्र इत्यादौ तद्धितेन सम्बन्धार्थस्योक्तत्वाच्च न चैत्रपदात्पष्ठी । अत एव सम्बन्धस्योक्तत्वसूचनार्थं गावः सन्त्यस्येति विग्रहःप्रदर्शितः । प्रोक्तानीति । एषु स्थलेषु यथाक्रमं कत्रादिक्रमेण प्रोक्तानि कारकाणि ज्ञेयानीति शेषः । उपलक्षणमेतत् । यावता - समासेन चित्रगुश्चैत्र इत्यादौ सम्बन्धादेः, निपातेन 'अमुं नारद इत्यबोधि स ' इत्यादौ च कर्मदेरर्थस्योक्तता । अत एव चैत्रादिपदान्न षष्ठ्यादीति बोध्यम् ।
नन्वासनमित्यादावनटाऽधिकरणाऽर्थस्योक्ततया ' आसन आस्त ' इत्यादौ सप्तम्याद्यनापत्तिरिति चेन्न । गुणभूताऽऽसिक्रियाऽधिकरणत्व