________________
( ७६ ) धातोः, 'दय्-अय्-आस्-कास्' धातोः, ऋच्छूर्णवजत् गुरुनाम्यादिधातोः परोक्षाया आम् नित्यं स्यात्, 'जागु - उष्-समिन्धु' धातोर्वा स्यात्, 'भी-हो-भृ-हु' धातोर्वा स्यात् स च तिव्वत्, वेत्तेर्वा स्यात् स च किद्वत्, आमन्ताच्चानन्तरं परोक्षान्तं कृम्वस्ति प्रयुज्यते ॥ आमः कृगः प्राग्वत् कर्तर्यात्मनेपदं भवति ।। ऋतीयाञ्चक्रे, आनर्त, ऋतीयिष्ट, ऋत्यात्, ऋतीयिता, अर्तिता, ऋतीयष्यते, अतिष्यति ॥ ३३ ॥
" णद- गद् अव्यक्ते शब्दे" पाठे धात्वादेर्णो नः स्यात् ॥ नदति । दुर्वर्जोपसर्गस्थादन्तः शब्दाच्च रादेः परस्य णोपदेश - हिनु- मोनाऽऽनि' सम्बन्धिनो नस्य णः स्यात् ॥ प्रणदति, अनादीत्, अनदीत्, नेदतुः, ननाद, ननाद, ननद ॥ "स्वन - स्वन् शब्दे" स्वेनुः, सस्वनुः ||३४||
"गुपौ - गुप् रक्षणे" गोपायति ४ । अदन्तधातोरशिति अतो लुक् स्यात् ॥ अगोपायीत्, अगोपीत्, अगौप्सीत्, अगौप्ताम्, अगौप्सुः, गोपायाञ्चकार,