________________
( ७८ ) "आछु-आञ्छु आयामे" उदितो धातोः स्वरात् परो नोऽन्तः स्यात्॥आञ्छति, आन्छ, आञ्छतुः, आञ्छयात् ॥३०॥ "वज-व्रज गतौ" परस्मैपदे सेटि सिचि परे-व्य. खनादिधातोरुपान्त्यस्यातो वा वृद्धिः स्यात्, वद्व्रज-लान्त-रान्तधातोनित्यं स्यात्, एदितः शिव-जागृ-शस्-क्षण-हान्त-यान्त-मान्तस्य तु न । अवाजीत् । जिति णिति च परे उपान्त्यस्यातो वृद्धिः॥ ववाज ॥३१॥
"त्यज-त्यज त्यागे" अनिटि परस्मैसिचि व्यञ्जनान्तधातुसमानस्य वृद्धिः,ऊ गस्तु सेटि वा स्यात्॥ अत्याक्षीत् । धुडन्त-हस्वान्तधातोरनिसिचस्तावो थादौ च लुक् स्यात् ।। अत्याक्ताम्, अत्याक्षुः ॥३२॥
"ऋत-ऋत् घृणा-गति-स्पर्धेषु" गुपौ-धूप-विच्छपणि-पनेः-आयः, कमेः-णिङ्, ऋतेः-डीयः स्वार्थे भवति, अशवितु वा॥ ऋतीयते, ऋतीयेत, ऋतीयताम्, आयत, आर्तीयिष्ट, आर्तीत्। अनेकस्वराद्