________________
( ६३ )
विशत्यादेर्वा तमट् । विंशतेः पूरण:- विंशतितमः, विशः ॥ ५८ ॥
यत् तद्-एतदोडावतु स्यात् । यत् परिमाणं यस्य
यावान् ||५||
प्रमाणात् मात्र, ऊर्ध्वप्रमाणात् दन्नट्, द्वयसट् च वा स्यात् । जानु प्रमाणमस्य - जानुमात्रम्, जानुदनम्, जानुद्वयसं जलम् ॥६०॥ तदस्य संजातमित्यर्थे तारकादे: 'इत' स्यात् । तारकाः संजाता अस्य - तारकितं नभः ॥ ६१ ॥ किमः त्याद्यन्तात् एकारान्तादव्ययाच्च परयोस्तमप्तरपोरन्तस्य आम् स्यात् । इदमनयोरेषामतिशयेन किं पचतीति- किंतरां पचति पचतितरां, पचतितमाम्, पूर्वाह्णेतराम्, सुतराम् अतितराम् ॥६२॥
प्रकारे धा । द्वाभ्यां प्रकाराभ्यां द्विधा ॥ ६३ ॥ वारे कृत्वस् । द्वौ वारौ - द्विकृत्वः ॥ ६४ ॥ वारे द्वि- त्रि- चतुरः सुच् । द्विः ॥६५॥