________________
( ६२ ) काः संख्याः परिमाणमेषामिति-यति, तति, कति ॥४६॥ यत्-तत्-किमन्याद् द्वयोरेकस्मिन् निर्धायें उतरः, बहूनां प्रश्ने डतमश्च वा। कतरः, कतमः ॥५०॥
द्वेः संख्यापूरणे तीयः स्यात्, त्रेस्तृ च । द्वयोः पूरणः. द्वितीयः, त्रयाणां पूरणः-तृतीयः ॥५१॥ चतुरः थट् स्यात् । चतुर्णां पूरणः-चतुर्थः ॥५२॥ षडादेरपि । षण्णां पूरणः-षष्ठः, कतीनां पूरणःकतिथः ॥५३॥ नान्तसंख्याया मट् स्यात् । पञ्चानां पूरणीपञ्चमी ॥५४॥ संख्यापूरणे डट् स्यात्। एकादशानां पूरणी-एकादशी ॥५॥ एकादश षोडश षोढा षढ़ा निपात्यन्ते ॥५६॥ 'द्वि-त्रि-अष्टन्'शब्दानां 'द्वा त्रयस् अष्टन्' स्युः शतात् प्राक, अशीतिबहुव्रीही तुन, चत्वारिंशदादौ तुवा। द्वादशी, त्रयोदशी,अष्टादशी, द्वयशीति॥५७॥