________________
( ६० ) टघण् स्यात् । आधिपत्यम्, आधिराज्यम्, मौढचम्, राज्यम्, काव्यम् ॥३४॥ अर्हतो भावे कर्मणि च ट्यण तद्योगे तस्य च नः । आर्हन्त्यम्, अर्हत्त्वम्, अर्हत्ता ॥३५॥ षष्ठयन्तात् सप्तम्यान्ताच इवार्थे वत् स्यात् । चैत्रवत् मैत्रस्य भूः, लुध्नवत् साकेते परिखा ॥३६॥
प्रथमान्तात् षष्ठयर्थे सप्तम्यर्थे च वामतुः,प्रथममान्तं चेत् अस्तीति समानाधिकरणं भवति । स्वस्ति आरोग्यमस्यास्तीति-स्वस्तिमान्, श्रीमान् ॥३७॥
मकारान्मकारोपान्ताच्च अवर्णादवर्णोपान्ताच्च पञ्चमरहितवर्गान्ताच नाम्नः परस्य मतोर्मस्य वः स्यात् । वृक्षा अस्मिन् सन्ति-वृक्षवान् पर्वतः, एवंधनमस्यास्तीति-धनवान् ॥३८॥ अतोऽनेकस्वरात वीह्यादेश्च मत्वर्थे इक इन च स्यात् । दण्डिकः, दण्डी, व्रीहिकः, द्रोही ॥३६॥ 'असन्त-तपस्-माया-मेधा-सन्'शब्दात् मत्वर्थे विन् स्यात् ॥४०॥