________________
( ५६ ) स्यात्, नित्यशब्दसंकीर्तनात् प्रागर्थेषु । कुत्सितमज्ञातमल्पं वा पचतीति-पचतकि, सर्वके, त्वकम्, अव्ययस्यापि तथा किन्तु अन्त्यकस्य दः स्यात् । कुत्सितमज्ञातमल्पं वा उच्चैः-उच्चकैः । पृथक्-पृथकत् ॥२८॥
षष्ठयन्ताद् भावे त्व तल च स्यात् । शब्दस्य प्रवृ. त्तिहेतुर्गणो भावः । गोर्भावो-गोत्वं गोता ॥२६॥
लघुरादिः समीपो येषांताशा ये इ-उ-ऋ-वर्णास्तदन्तेभ्यस्तस्य भावे कर्मणि चाणपि स्यात्। शुचेर्भावः कर्म वा-शौचम् ॥३०॥ क्वचिद् द्वयोः पदयोरादिस्वरवृद्धिः। सुहृदः सुभगस्य भावः- सौहार्दम्, सौभाग्यम् ॥३१॥
वर्ण-दढादेर्भावे टयण इमन् च वा स्यात् । शौक्ल्यम्, शुकिमा ॥३२॥
पृथ्वादेर्भावे इमन् वा । प्रथिमा, पृथुत्वम्, पृथुता, पार्थवम् ॥३३॥ पत्यन्त-राजान्त-गुणाङ्ग-राजादेर्भावे कर्मणि च