________________
( ५८ ) विकारे अणादिः । हेम्नो विकारः-हैमी, एकस्वरात् तु मयट्-वाचो विकारः-वाङ्गमयम् ॥२१॥ 'तत्र साधुः' इत्यर्थे यः। सभायां साधु:- सभ्यः ॥२२॥ तस्मै हितमित्यर्थे यः । युगाय हितः-युग्यः। ईनोऽपि भवति- मातृभोगाय आत्मने सर्वजनाय वा हितः- मातृभोगीणः, आत्मनीनः, सर्वजनीनः ॥२३॥
सप्तम्यन्तात् अधीनेऽर्थे 'कृ-भू-अस्-सम्पद'योगे स्तात् स्यात् । जिनि अधीनं करोतीति-राजसात् करोति ॥२४॥ कर्मार्थात कृगा योगे कर्थाच्च भ्वस्तियोगे प्रागभूततभावे गम्ये च्विः स्यात् ॥२५॥ अवर्णस्य च्वौ ईः। प्रागशुकःशुकः स्यादिति-शुकीस्यात् ॥२६॥
वचित् डाच भवति।सुखाकरोति गुरुम्, गुरोरनुकूलं करोति तमाराधयतीत्यर्थः ॥२७॥ त्याद्यन्त-सर्वादिस्वरेषु अन्त्यस्वरात् प्राक 'अक्'