________________
( ४६ ) असम्प्रति-पश्चात्-क्रम-ख्याति-युग्पत्-सहा-सम्पत्साकल्य-अन्त' एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समस्यते स चाव्ययीभावः ॥१॥ अनतोऽव्ययीभावस्य स्यादेर्लप स्यात् । खियामिति-अधिखि, अव्ययीभावस्य नपुंसकत्वात् ह्रस्वत्वम् ॥२॥
अतोऽव्ययीभावस्य पञ्चमीवर्जस्यादेः 'अम्' स्यात्, तृतीयासप्तम्योस्तु वा। कुम्भस्य समीपमितिउपकुम्भमस्ति, उपकुम्भमुपकुम्मेन किम् ? उपकुम्भमुपकुम्भ निधेहि ॥३॥
अवधारणे गम्ये यावत् नाम्ना समस्यते स चाव्ययीभावः । यावदमत्रं भोजय ॥४॥
योग्यता-वीप्सार्थानतिवृत्ति-सादृश्यार्थे वर्तमानमव्ययं नाम्ना समस्यते स चाव्ययीभावः। अनुरूपम्, प्रतिगृहम्, यथाशक्ति, सशीलमनयोः ॥५॥ 'था'प्रत्ययान्तभिन्नं यथाऽव्ययं नाम्ना समस्यते