________________
चरति- व्यवहरतीति- प्रासादीयति कुट्याम्, प्रासादीयत् ।।३।। कर्तुरुपमानादाचारे 'क्यङ्-य' वा ।। हंस इवाचरति-हंसायते ।। सान्तात् कर्तरुपमानादाचारे क्य वा स्यात्, अन्तस्य च सो वा लुक्, 'ओजस्-अप्सरस्' इत्यस्य तु नित्यं लुक ।। पय इवाचरति-पयायते, पयस्यते, ओजायते, अप्सरायते ।।४।। मालां निधि पटुं पितरं रायं गां नावं चेच्छतीति क्यनि- मालीयति, निधीयति, पटूयति, पित्रीयति, रैयति, गव्यति, नाव्यति । क्यवर्जे यादौ प्रत्यये ओतः-अव, औतश्च-आव ।। समीधमिच्छतीति-समिध्यति । धातोर्व्यञ्जनात् परस्य क्योऽशिति प्रत्यये लुग वा ।। असमिधीत्, असमिध्योत् । मैथुनार्थाद् 'वृष-अश्व' इत्यतः क्यनि ‘स्सः-स्' अन्तः स्यात् ॥ मैथुनाय वृषमश्वं चेच्छतीति- वृषस्यति गौः, अश्वस्यति वडवा ॥५॥ कृगादीनां धातुनामर्थे नाम्नो ‘णिच-ई' बहुलं