________________
( १२० ) स्यात् ॥ 'णि-इष्ठ-ईयसु' इति इमनि च परतः 'तृअन्त्यस्वरादि' इत्येतयोर्लुक् स्यात् ।। कर्तारमाचष्टेकरयति ॥ पृथ्वादेऋतो रो ण्यादौ ॥ पथं करोति आचष्टे वा-प्रथयति, अपप्रथत् । ऊढमूढिं वा करोत्याचष्टे वा- ऊढयति, औजढत्, औजीढत् ॥६॥
॥ इति नामधातुप्रक्रिया॥३१॥ ३२-अथात्मनेपद-परस्मौपदप्रक्रिया॥ कर्तर्यात्मनेपदं भवतीति सर्वत्र योज्यम् । निविशःनिविशते ॥ परावेर्जे:- विजयते । परिव्यवात क्रियः- परिक्रीणीते ॥ भुनजोऽत्राणे-घृतं भुङ्क्ते, महीं भुनक्ति ॥ क्रियाव्यतिहारे- व्यतिलुनीते, अन्याहं लवनं करोतीत्यर्थः, व्यतिहरन्ते भारम्, गत्याद्यर्थ न-व्यतिगच्छन्ति ॥१॥ कर्तरि परस्मैपदं भवतीति सर्वत्र योज्यम् । परानो:-कृगः- पराकरोति, अनुकरोति ॥ प्रत्यभेः क्षिपः-प्रतिक्षिपति ॥ प्राद् वहः-प्रवहति ॥ परेम॒षो वहश्च- परिमृष्यति, परिवहति ॥ व्याङ्-परे