________________
( ११६ )
गिरते रो लः ॥ यङन्तयोः 'चर् फल्' इत्येतयोः, तादौ प्रत्यये चोपान्त्यस्यात उः स्यात्, न च तस्योत् ॥ गह्यं गिलति लुम्पति सोदति चरति जपति जम्भति दशति बहति- जेगिल्यते, लोलुप्यते, चंचूर्यते, जंजभ्यते, दंदश्यते, दंदह्यते ॥ भृ० फलतिपंफुल्यते ॥६॥
“वञ्च-वञ्च् गतौ” “भ्रंशूङ्- भ्रंश् स्रंसूङ्-स्रंस् अवंस्त्रसने" "ध्वंसूङ्-ध्वंस् अवस्त्रंसन- गत्योः" " कस-कस् गतौ" "पदिच्- पद् गतौ" "स्कन्दं - स्कन्द गति-शोषणयोः " ||७||
कुटिलं - वञ्चति कसति पतति पद्यते स्कन्दतिवनीवच्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कद्यते । भृशं पुनः पुनर्वास्रंसते ध्वंसते भ्रंशते इति - सनीस्रस्यते, दनीध्वस्यते, बनीभ्रश्यते, “भजोप्-भञ्ज् आमर्दने” “पश् सौत्रो बन्धने" भृ० भनक्ति पशति - बंभज्यते, पंपश्यते ॥ ८ ॥
भृशं पुनः पुनर्वा पृच्छति नृत्यति परिपृच्छयते ।