________________
( ११२ )
किद्वत् स्यात्, रुद-विद्-मुष्-ग्रह-स्वप-प्रच्छस्तु नित्यम् ॥ ग्रहीतुं गृहितुं [ "गुहौग-गुह, संवरणे"] वेच्छतीति-जिघृक्षति, जुघुक्षति । रोदितुं मोषितुं स्वप्तुं वेच्छतीति-रुरुदिषति विविदिषति मुमुषिषति लेखितुं धोतितुं वा इच्छतीति-लिलिखिषति, लिलेखिषति, दिद्युतिषते, दिद्योतिषते ॥३॥
ऋ-स्मि-पू-अञ्ज-अशौ-क-ग-ह-धृ-प्रच्छःसन आदिरिट् स्यात् ॥प्रष्टुमिच्छतीति-पिपृच्छिषति । अतुं ["ष्मिङ्-स्मि ईषद्धसने"] स्मेतुं पवितुमङ्क्तम् ["अशौटि-अश् व्याप्तौ"] अशितुं करीतुं गरीतुं ["हुंड्-दृ आदरें" "धंत्-धृ स्थाने" ] दतु धर्तु वेच्छतीति-अरिरिषति, सिस्मयिषते, [णिस्तोरेवेति नियमात् षत्वाभावः] पिपविषते, अञ्जिजिषति, अशिशिषते, चिकरीषति, जिगरीषति, दिदरिषते, विधरिषते ॥४॥
'मि-मी-मा-दासंज्ञक'धातुस्वरस्य सि सनि इत् स्यात् ॥ 'रभ-लभ-शकू-पत्-पद्'धातुस्वरस्य तु सि