________________
( ११० ) द्विः, एवं संयोगादिभूतो रोन द्विः,न चेत् परो यः॥ आपिपत् ॥ ब्ली, लिनन्तं- ब्लेपयति । "क्नूयङ्क्नूय शब्दोन्दनयोः" पौ यवर्जव्यञ्जनादौ च य्वोलुक् स्यात् ॥ क्नूयमानं-क्नोपयति ॥ "क्ष्मायङ्क्ष्माय विधूनने" क्ष्मायमानं-क्ष्मापयति ॥ ह्री, जिह्रियतं-हृपयति ॥ णौ 'क्रो-जि-इङ्' इत्येषामन्तस्य आ स्यात् ॥ क्रीणन्तं जयन्तम् अधीयानं-कापयति, जापयति, अध्यापयति, अध्यापिपत् ॥२॥ 'पा-छा-सा-वे-ह्वा' इत्येषां णो योऽन्तः स्यात् ॥ पिबन्तं श्यन्तं छयन्तं स्यन्तं, [ "वेग-वे तन्तुसन्ताने" ] वयन्तं यन्तं प्रयुङ्क्ते-पाययति, शाययति, छाययति, साययति, वाययति, ह्वाययति । ज्यन्तस्य पिबो पिप्य स्यात्, न च द्विः॥ अपिप्यत्॥ घटादीनां गौ ह्रस्वः, जि-णम्परे णौ तु वा ॥ "घटिष्-घट चेष्टायाम्" घटमानं प्रयुङ्क्ते-घटयति, अजीघटत् ॥ हनो णिति घात् स्यात् ॥ घ्नन्तं प्र० घातयति ॥३॥ इति प्यन्तप्रक्रिया॥२७॥