________________
( १०६ )
बभूव चोरयामास, चोर्यात् ॥ "कथण- कथ वा
प्रबन्धे" कथयति अचक्रथत् ॥ "गणण- गण संख्याने " गणयति, गणस्य ङपरे णौ द्वित्वे पूर्वस्य ई, अव स्यात् ॥ अजीगणत्, अजगणत् ॥
॥ इति चुरादिः समाप्तः ॥ २६ ॥ २७- अथ णिगन्तप्रक्रिया ||
कर्तः प्रेरक :- प्रयोक्ता, तद्व्यापारे 'णिग्-इ' स्यात् ॥
कश्चिद् भवति तमन्यः प्रयुङ्क्ते - प्रेरयतीति वाक्ये, भवन्तं प्रयुङ्क्ते इति वाक्ये वाणिगि- भावयति, भावयते द्वित्वे पूर्वस्योतोऽवर्णान्त जान्तस्थापवर्गे परे सनि इः स्यात् ॥ अबीभवत् एवं वाक्यद्वयमत्यत्रापि ||१|| 'ऋ-री-ली-हो- क्नूय क्ष्माय आदन्त' इत्येषां णौ पुः स्यात् ॥ स्था, तिष्ठन्तं प्र०- स्थापयति, स्थो उपरे णौ उपान्त्यस्य इः स्यात् ॥ अतिष्ठुिपत् ॥ ऋ ऋच्छन्तं प्र० - अर्पयति, स्वरादिवातोद्वितीय एकस्वरोंऽशो द्विः स्यात्, तत्र संयोगस्याद्या ब-द-नान
0
1