________________
( ५ ) "लिहीक-लिह आस्वादने" लेडि, लीढः, अलिक्षत्, अलिक्षत, अलोढ ॥५॥
॥ इत्यदादावुभयपदम् ॥११-१२॥ १३-अथादाद्यन्तर्गणो हादिः ॥
तत्र परस्मैपदम् ॥ "हुंक-हु दानादनयोः” दानमत्र हविष्प्रक्षेपः । ह्वादिः शिति द्विः स्यात् ।। जुहोति, जुह्वति, जुहुषि, अजुहवुः, जुहवांचकार, जुहाव ॥१॥
"ओहांक-हा त्यागे" जहाति, हाको व्यञ्जनादौ शित्यविति आत इवा, हो तु- आ इश्च वा, यि तु लुक् स्यात् ॥ जहितः, द्वयु क्त-जक्षपश्चतः श्नश्चातः शित्यविति व्यञ्जनादौ ई: स्यात्, न दासंज्ञस्य ॥ जहीतः, जह्यात, जहाहि, जहिहि जहीहि, जहेयात् ॥२॥
"मिभीक- भी भये" बिमेति, भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् ।। बिभितः, विभीतः, बिभ्यति, बिभियांचकार, विभाय ॥३॥