________________
( ६४ )
१२- अथादादावुभयपदम् ॥ "टुंग्क् - स्तु स्तुतौ” स्तौति, स्तवीति ॥ धूग्-सुस्तोः परस्मैसिच् आदिरिट् स्यात् ॥ अस्तावीत्, तुष्टोथ, तुष्टुव ॥१॥
"मूंग्क्ब्रू व्यक्तायां वाचि" ब्रूगस्तिवादिपञ्चकस्य क्रमेण णवादिपञ्चकं वा भवति ।। आह, आहतुः, आहुः, घुट्-पदान्ते नहः- तः, आहश्च थः स्यात् ॥ आत्थ, आहथुः । ब्रवीति । अशिति वचादेशे वच्वत्
॥२॥
"द्विषक - द्विष् अप्रीतो" द्वेष्टि, अद्विषुः, अद्विषन्, अद्विक्षत् अद्विक्षत, सकोऽस्य स्वरे लुक् स्यात् ॥३॥ अद्विक्षताम् अद्विक्षन्त ॥३॥
"दुहीं - दुह क्षरणे" दोग्धि, धोक्षि, अधोक्, अधोग, अधुक्षत। दुह - दिह - लिह - गुहः सको दन्त्यात्मने वा लुक् स्यात् ॥ अदुग्ध, अधुक्षथाः, अदुग्धाः, अधुक्षावहि, अदुहि ॥ एवं- "दिहीं - दिह लेपे" इत्यस्यापि ॥४॥