________________
( ८७ ) क्षत्, रोढा॥ "रमि-रम् क्रीडायाम्" रमते। व्याज परेः परस्य रमः परस्मैपदं कर्तरि ॥ विरमति, व्यरंसीत् ॥"पहि-सह मर्षणे"सहते, सेहे, सोढा ॥३॥
॥इति ज्वलादिः ॥६॥ ७-अथ भ्वादिगतो यजादिः ॥ "यजी- यज् देवपूजासंगतिकरणदानेषु" यजति, यजते, अयाक्षीत्, अयष्ट, इयाज । यजादि-वचेः, ज्या-व्यधश्च किति सस्वराऽन्तस्था य्वृत् स्यात् ॥ ईजतुः, ईजे ॥१॥
"व्यंग-व्ये संवरणे" व्ययति, विव्याय, विव्यतुः, विव्ययिथ, विव्ये, वीयात, व्याता ॥२॥
"हग्-ह्व स्पर्धा-शब्दयोः" ह्वयति । ह्वा-लिप्सिचः कर्तर्यद्यतन्याम् 'अ' स्यात्, आत्मने तु वा ॥ अह्वत्, अह्वत, अह्वास्त, ह्वो द्वित्वविषये वृत् स्यात्॥ जुहाव, जुहुवे, जुहोथ, जुहविथ ॥ "डुवपी-वप् बीजसन्ताने" उवाप, ऊपे ॥ "वहीं-वह प्रापणे" उवाह, ऊहे ॥ "ट्वोश्वि-शिव गति-वृद्धयोः" श्व