________________
( ८२ )
वा स्यात् ॥ अकृक्षत्, क्रष्टा, कष्ट ॥४५॥ "उषू - उष् दाहे " ओषति, ओषाञ्चकार, उवोष ॥ "हसे- हस हसने " अहसीत् ।। " शसू - शस् हिंसायाम्" शसति, शशास शशसतुः ॥ “मिहं- मिह, सेचने" अमिक्षत् ॥ " मह - मह, पूजायाम्" अमहीत् ॥४६॥
॥ इति भ्वादौ परस्मैपदम् ॥२॥ ३-अथात्मनेपदम् ॥
"एधि - एष वृद्धौ " एधते । 'आताम्-आते-आथाम्आये' इत्येषामात इः स्यात् ॥ एघेते, एघेत, एधताम्, ऐषत, ऐधिष्ट, ऐधिषाताम् । अनतः परस्यात्मनेपदस्थस्य अन्तोऽत् स्यात् ॥ ऐधिषत । धातोर्घादौ प्रत्यये सो लुक् वा स्यात् ॥ ऐधिध्वम्, ऐधिवम् । एधांचक्रे । रान्त-नाम्यन्तधातोः परासां परोक्षाऽद्यतन्याशिषां धो ढः स्यात्, हाऽन्तस्थापरात् ञि-इटः परासां तु वा ॥ एषांचकृढ्वे, एधिषीष्ट, एधिता ॥१॥