________________
( ८१ ) छोऽन्तस्य॥यच्छति, अयंसीत्, यन्ता, यक्ष्यति॥ "स्यमू-स्यम् शब्दे" स्येमुः, सस्यमुः॥ "णमं-नम् नम्रत्वे" नमति, अनंसीत्, नेमुः, नन्ता ॥४०॥
"गम्लं- गम् गतौ" गच्छति, अगमत् । गम-हनजन-खन-घसः स्वरेऽनङि विडति लुक् ॥ जग्मतुः, गन्ता । गमोऽशितः सादेरिट स्यात्, आत्मनेपदे तु न ॥ गमिष्यति ॥४१॥
"चर- चर् भक्षणे गतौ च" चरति, अचारीत् ।। "फल- फल निष्पत्तौ" अफालीत्, फेलतुः ॥४२॥
"ठिवू-ष्ठिव् निरसने" ष्ठीवति । ष्ठिवो द्वित्वे पूर्वस्य तिर्वा स्यात् ॥ तिष्ठेव, टिष्ठेव ॥४३॥
"दृश-दृश प्रेक्षणे" पश्यति, अदर्शत् । से परे ष-ढोः कः स्यात् ॥ अद्राक्षीत्, अद्राष्टाम, ददर्श, वष्ठ, वशिथ, द्रष्टा, द्रक्ष्यति ॥४४॥
"कृष- कृष हलोत्कर्षणे" कर्षति, अकाीत, अकाक्षीत् । अदृशोऽनिटो नाम्युपान्त्यात ह-शिडन्तावद्यतन्यां 'सक्-स' नित्यं, स्पृश-मृष-कृष-तृप-दृपस्तु