________________
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
च तेषां प्रमाणग्रन्थोक्तत्वेन विनयविशेषभूतत्वेन च निषेद्धुमशक्यत्वाद्योगमुद्रयापि शक्रस्तवपाठो न विरुद्धयते विचित्रत्वान्मुनिमतानाम्, न चैतानि परस्परमतिविरुद्धानि, सर्वैरपि विनयस्य दर्शितत्वादिति । तथा 'वंदण'त्ति इहानुस्वारलोपो द्रष्टव्यस्तेन वन्दनं 'अरिहंतचेइयाणं' इत्यादि दण्डकपाठेन जिनबिम्बादिस्तवनं जिनमुद्रयोपदेक्ष्यमाणलक्षणया, इयं च पादाश्रिता योगमुद्रा च हस्ताश्रितेत्युभयोर्वन्दने प्रयोगः । तथा प्रणिधानं शुभार्थप्रार्थनारूपम्, विशिष्टचित्तैकाग्रतागर्भ 'जय वीयराय' इत्यादिपाठरूपं मुक्ताशुक्त्या निर्देक्ष्यमाणमुद्रया कर्तव्यमिति गाथार्थः ।।४०।।
अथ पञ्चाङ्गप्रणिपातादीनां व्याख्यानायाह - द्वे जानुन्यष्ठीवन्तौ द्वौ करौ हस्तौ, पञ्चममेव पञ्चमकं भवति वर्तत उत्तमाङ्गं तु शिर एवेत्यनेन पञ्चाङ्ग इति व्याख्यातम्, अथ प्रणिपातव्याख्यानाय आह - एतैरेव पञ्चभिरङ्गः सम्यग्भक्तितो भून्यासतो यः संप्रणिपातः प्रणामोऽसौ ज्ञेयो ज्ञातव्यः पञ्चाङ्गप्रणिपातः पूर्वोक्तनिर्वचन इति ।।४१।।।
योगमुद्रास्वरूपमाह-अन्योऽन्येन परस्परेणान्तरिता व्यवहिता अङ्गल्यः करशाखा ययोस्तौ, तथा तौ च तौ कोशाकारौ च कमलकोरकाकृती उभयजोडनेनान्योन्यान्तरिताङ्गलिकोशाकारौ ताभ्यां, द्वाभ्यां हस्ताभ्याम्, किंभूताभ्याम् ? पेट्टस्योदरस्योपर्युलभागे कूर्पराभ्यां कुहणिकाभ्यां संस्थितौ व्यवस्थितौ यौ तौ तथा ताभ्याम्, पेट्टोपरिकूर्परसंस्थिताभ्याम्, तथा तेन प्रकारेणाचरणगम्येनाथवा पञ्चाङ्गप्रणिपातापेक्षया समुच्चयार्थस्तथाशब्दः । योगो हस्तयोयोजनविशेषः समाधिर्वा, तत्प्रधाना मुद्रा अङ्गन्यासविशेषा विघ्नविशेषव्यपोहनसमर्था योगमुद्रा भवतीति गम्यते । इतिशब्दो योगमुद्रालक्षणसमाप्तिसंसूचक उपप्रदर्शनार्थो वा, इत्येवंप्रकारा योगमुद्रेत्यर्थः ।।४२।। ___ अथ जिनमुद्रामाह - चत्वारीतिसङ्ख्या अङ्गलानि प्रतीतानि, तानि च स्वकीयान्येव पुरतोऽग्रतस्तथोनानि किञ्चिदूनानि चत्वार्येवाङ्गलानि यत्र यस्यां मुद्रायां पश्चिमतः पश्चिमभागेऽथ पादयोश्चरणयोरुत्सर्गः परस्परपरित्यागः संसर्गाभावोऽन्तरमित्यर्थः, एषासौ, पुनःशब्दो योगमुद्रापेक्षया जिनमुद्राया वैलक्षण्यप्रतिपादनार्थः, भवति संपद्यते जिनानामर्हतां कृतकायोत्सर्गाणां सत्का, जिना वा विघ्नजेत्री मुद्रा अङ्गन्यासविशेषो जिनमुद्रेति ।।४३ ।।
अथ मुक्ताशुक्तिमुद्रामाह-मुक्ताशुक्तिरिव मुक्ताशुक्तिर्मुद्रा प्रतीता सा भवतीति वाक्यशेषः, समौ नान्योऽन्यान्तरिता१लितया विषमौ यस्यां मुद्रायां भवतः, ततः गर्भिताविव गर्भितावुनतमध्यौ, न तु नीरन्ध्रौ हस्तौ पाणी, इहैव लक्षणशेषमाह - तौ मुक्ताशुक्तिविधायकौ हस्तौ, पुनः१. पिट्टत्ति A २. कफणिकाभ्यां A ३. उदरोपरि A