________________
१-देवतत्त्वम् गा-४०, ४१, ४२, ४३, ४४
भवति स्तवपाठः शक्रस्तवादिपठनं योगमुद्रया । वन्दनं ' अरिहंतचेइयाणं' इत्यादि दण्डकपाठो जिनमुद्रया, इयं च पादाश्रिता योगमुद्रा च हस्ताश्रितेत्युभयोरप्यत्र प्रयोगो ज्ञेयः, प्रणिधानं शुभार्थप्रार्थनारूपं 'जय वीयराय' इत्यादि पाठात्मकं मुक्ताशुक्तिमुद्रया ।। ४० ।। पञ्चाङ्गप्रणिपातव्याख्यात्री 'दो जाणू दुन्निकरे' ति गाथा सुगमा ।।४१।।
५३
योगमुद्रामाहुः - अन्योन्यस्यान्तविचालमिताः प्राप्ता अङ्गुल्यो ययोस्तावन्योन्यान्तरिताङ्गुली, तौ च तौ कोशाकारौ च कमलकोरकाकृती ताभ्यां द्वाभ्यां हस्ताभ्याम् । 'पिट्टवरि कोप्पर संठिएहिं' ति प्राकृतत्वाच्छब्दव्यत्यये पेट्टोपरि संस्थितकूर्पराभ्याम्, तथेति प्रणिपातापेक्षया समुच्चये । योगो हस्तयोर्योजनविशेषः समाधिर्वा तत्प्रधाना मुद्राऽङ्गन्यासविशेषो विघ्नविघातनक्षमो योगमुद्रा, इत्येवंप्रकारेत्यर्थः ।।४२।।
अथ जिनमुद्रामाहुः - चत्वार्यङ्गुलानि पुरत ऊनानि किञ्चिन्यूनानि पश्चिमतः पश्चाद्भागे यत्र मुद्रायां पादयोरुत्सर्गः परस्परपरित्यागः संसर्गाभावोऽन्तरमित्यर्थः । एषा पुनर्भवि जिनमुद्रा जिनानामर्हतां कृतकायोत्सर्गाणां स्वयं वा जिना विघ्ननेत्री मुद्रा जिनमुद्रेति ।। ४३ ।। मुक्ताशुक्तिमुद्रा गाथा स्पष्टा, नवरं समौ नान्योन्यान्तरिताङ्गुलितया विषमौ । 'गब्भिय'त्ति गर्भितावुन्नतमध्याविति गाथापञ्चकार्थः ।।४४।।
देव० : तत्र पञ्चाङ्गान्येव यथाविवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गप्रणिपातः, प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः । यद्यपीह पञ्चाङ्गप्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यम्, मुद्राणामेवाधिकृतत्वात् । तदुक्तं च‘पञ्चाङ्ग्या अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति ।' तथा स्तवपाठः शक्रस्तवादिस्तपठनं भवति कर्तव्य इति शेषः । कयेत्याह - योगमुद्रया वक्ष्यमाणलक्षणया ।
ननु चतुर्विंशतिस्तवादेरेव पाठो योगमुद्रया विधेयः, न तु शक्रस्तवस्य तं हि ‘समाकुञ्चितवामजानुर्भूविन्यस्तदक्षिणजानुर्ललाटपट्टघटितकरकुद्मलः पठती 'ति जीवाभिगमादिष्वभिधीयत इति । सत्यम्, केवलं नानन्तरोक्तविशेषणयुक्त एव तं पठतीति नियमोऽस्ति, पर्यङ्कासनस्थः शिरोविनिवेशितकरकोरकस्तं पठतीत्यस्यापि ज्ञाताधर्मकथादिषु दर्शनात् तथा हरिभद्राचार्येणापि चैत्यवन्दनवृत्तौ 'क्षितिनिहितजानुकरतलो भुवनगुरौ विनिवेशितनयनमानसः प्रणिपातदण्डकं पठति' इत्यस्य विध्यन्तरस्याभिधानात् ततोऽस्य पाठे विविधविधिदर्शनात्सर्वेषां १. कर्तव्यमिति A