________________
१-देवतत्त्वम् गा-४०, ४१, ४२, ४३, ४४
शब्दो लक्षणान्तरत्वद्योतनार्थः । ललाटदेशे भाललक्षणे शरीरभागे लग्नौ सम्बद्धौ कार्यो, अन्ये त्वपरे पुनराचार्या अलग्नावसम्बद्धौ ललाटदेश एवेत्येतदाहुरिति शेष इति । ननु प्रणिधानं मुक्ताशुक्त्येत्युक्तम्, तच्च किल वन्दनान्ते क्रियते, अतः शेषा वन्दना प्रणिधानविरहितैव करणीयेति प्राप्तमित्यत्रोच्यते यदेतद्वन्दनान्ते प्रणिधानं तत्प्रार्थनागर्भोपयोगरूपम्, यत्पुनर्वन्दनायां तत्तदेकाग्रतारूपमतस्तत्सर्वत्र वन्दनायां विधेयमिति गाथापञ्चकार्थः ।।४४।।
* प्रवचनसारोद्धारे-७२, ७३ * तत्र मुद्रात्रयमध्ये यस्या यत्र व्यापारस्तां तत्र दर्शयति -
पंचंगो पणिवाओ थयपाढो होइ जोगमुद्दाए ।
__वंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए ।। 'पंचंगे'त्यादि पञ्चाङ्गानि-अवयवा विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः प्रणिपात:प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः, यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यम्, मुद्राणामेवाधिकृतत्वात्, युक्तं च पञ्चाङ्ग्या अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति । तथा स्तवपाठः शक्रस्तवादिरूपो भवति योगमुद्रया, वन्दनं चैत्यवन्दनं 'अरहंतचेइयाणं' इत्यादिकं जिनमुद्रया, अनुस्वारश्चात्र लुप्तो द्रष्टव्यः, इयं च पादाश्रिता योगमुद्रा हस्ताश्रितेत्युभयोरपि चैत्यवन्दने व्यापारः, प्रणिधानं 'जय वीयराये'त्यादिकं मुक्ताशुक्तिमुद्रयेति।।७२।। अथ पञ्चाङ्गप्रणिपातलक्षणनिरूपणापूर्वकमेतासामेव मुद्राणां लक्षणं दर्शयति -
दो जाणू दुनि करा पंचमगं होइ उत्तमंगं तु ।
संमं संपणिवाओ नेओ पंचंगपणिवाओ ।। 'दो जाणू' इत्यादि, तत्र पञ्चभिरङ्गैः सम्यक् समीचीनतया प्रकर्षेण निपतनं संप्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः, तत्र कानि पञ्चाङ्गानीति दर्शयति-द्वे जानुनी द्वौ करौ पञ्चमकं भवत्युत्तमाङ्गं च, तुशब्दःसमुच्चयार्थचशब्दार्थः ।।७३।।
* सङ्घाचारभाष्ये-१५, १६, १७ * आसां स्वरूपमाह -
अनुनतरि अंगुली कोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकुप्परिसंठिएहिं तह जोगमुद्दति ।।