________________
४८
तिदिसिनिरिक्खणविरई तिविहं भूमीपमज्जणं चेव । वनाइतियं मुद्दातियं च तिविहं च पणिहाणं ।।
६-त्रिदिग्निरीक्षणविरतिर्यस्यां दिशि तीर्थकृत्प्रतिमा तत्सम्मुखमेव निरीक्षणं विधेयं न पुनरन्यदिक्त्रयसम्मुखम्, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात्, तथा ७- चैत्यवन्दनं कर्तुकामेन सत्त्वादिरक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजचरणनिक्षेपभूमेः प्रमार्जनं त्रिवारं विधेयम्, तच्च गृहिणा वस्त्राञ्चलेन यतिना तु रजोहरणेनेति । ८-'वन्नाइतियं' इति विवृणोति - 'वन्नत्थालंबणओ वन्नाइतियं वियाणेज्जत्ति वर्णाअकारककारादयोऽर्थः शब्दाभिधेयमालम्बनं प्रतिमादिरूपमेतस्मिंस्त्रितयेऽप्युपयुक्तेन भवितव्यम्,
तत्रालम्बनं यथा
'अष्टाभिः प्रातिहार्यैः कृतसकलजगद्विस्मयः कान्तकान्तिः, सिञ्चन् पीयूषपूरैरिव सदसि जनं स्मेरदृष्टिप्रपातैः ।
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
निःशेषश्रीनिदानं निखिलनरसुरैः सेव्यमानः प्रमोदात् अर्हन्नालम्बनीयः स्फुरदुरुमहिमा वन्दमानेन देवः ।। इत्यादि ।
९- 'मुद्दातिगं' चेति व्याचष्टे - जिनमुद्रा योगमुद्रा मुक्ताशुक्तिमुद्रा चेति मुद्रात्रयं ज्ञातव्यम् । १० - 'तिविहं च पणिहाणं' इति विवृणोति - 'कायमणोवयणनिरोहणं च तिविहं च पणिहाणं' इति कायमनोवचनानामकुशलरूपाणां निरोधनं नियन्त्रणं शुभानां च तेषां करणमिति, तत्र कायं सुसंवृतं कृत्वा विहितकरकुशेशयकोशो मनसि तमेवाचिन्त्यचिन्तामणिचारुचरितं वन्द्यमानमर्हन्तं निवेश्य निजमधुरिमाधरीकृतमधुमाधुर्यया वाचैवं प्रणिधानमाधत्ते, यथा
-
जय त्रिजगतीपते शरण ! देहिनां श्रीजिनप्रसादवशतस्तव स्फुरतु मे विवेकः परः । भवेद्भवविरागिता भवतु संयमे निर्वृत्तिः परार्थकरणोद्यमः सह गुणार्जनैर्जायताम् ।। इत्यादि ।। ६७ ।।
चक्रे० : विधिवन्दनामुपसंहरन्तस्तत्फलमाहुः
देव० : विधिवन्दनामुपसंहरंस्तत्फलमाह
-
इय दहतियसंजुत्तं वंदणयं जो जिणाण तिक्कालं ।
कुणइ नरो उवउत्तो सो पावइ सासयं ठाणं ।। ३६ ।।
चक्रे० : स्पष्टा, केवलमुपयुक्तस्तदेकाग्रो भाववन्दनया फलं लभते । यदाह -
वंदंतो सम्मं चेइयाइं सुहज्झाणपगरिसं लहइ । तत्तो य कम्मनासं पणट्ठकम्मो य निव्वाणं ।। [
] ।।३६।।