________________
१-देवतत्त्वम् गा-३४, ३५
४७
उत्तिष्ठन्त्यारतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंशं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः; शय्यामालिङ्ग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ।। तथाशान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिम्, क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम्। विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यते शिष्यते;
नागै रागिषु रंस्यतेऽत्स्यति जगन्निर्वेक्ष्यति द्यामिति ।। उपलक्षणत्वाञ्च त्रिविधपूजाया अष्टप्रकाराऽपि सकलजनानन्ददायिन्यर्हतां पूजा विज्ञेयेति, यदुक्तम्वरगंधधूपचोक्खक्खएहिं कुसुमेहिं पवरदीवेहिं । नेवेज्जफलजलेहि य जिणपूआ अट्ठहा होइ।। [वरगन्धधूपचोक्षाक्षतैः कुसुमैः प्रवरदीपैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भवति ।।] इति । ५-'अवत्थतियभावणं चेव'त्ति व्याचष्टे-'होई'त्यादि, जिने छद्मस्थकेवलिसिद्धत्वलक्षणमवस्थात्रितयं यथास्वरूपं भावनीयमिति भावः, तत्र छद्मस्थावस्थैवं भगवतो भावनीया, यथा“विस्फूर्जन्मदवारिवारणघटं रङ्गत्तुरङ्गोद्भट, हर्षोल्लासिविलासिनीव्यतिकरं निःसीमसम्पद्ररम् । राज्यं प्राज्यसुखं विमुच्य भगवानिःसङ्गतां योऽग्रहीद्धन्यैरेष जनैरचिन्त्यमहिमा विश्वप्रभुर्वीक्ष्यते ।। धर्मध्याननिबद्धबुद्धिरसुहद्भक्तेष्वभिन्नाशयो, जाग्रज्ज्ञानचतुष्टयस्तृणमणिस्वर्णोपलादौ सदृक् । निःसङ्गं विहरन्निदानरहितं कुर्वन् विचित्रं तपः, सत्पुण्यैरवलोक्यते त्रिजगतीनाथः प्रशान्ताकृतिः।। इत्यादि। कैवल्यावस्था पुनरेवं भावनीया, यथा'रागाद्युत्कटशत्रुसंहतिकरं यद्विक्रमक्रीडितम्, लोकालोकविलोकनैकरसिकं यज्ज्ञानविस्फूर्जितम् । मूलोन्मूलितविश्वसंशयशतं यद्भारतीवल्गितम्, धन्यैरेव जनैर्जगत्त्रयगुरुः सोऽयं समालोक्यते ।। अहो विहितसंमदा त्रिभुवने विभूतिर्विभोरहो कृतमहोत्सवा ! त्रिजगतीदृशामाकृतिः । अहो वचनचातुरी मुषितकल्मषा देहिनामहो वशितविष्टपं सुगुणवेष्टितं चेष्टितम् ।। सिद्धावस्थाऽप्येवं त्रिजगतीपतेर्भावनीया, यथा -
यस्य ज्ञानमनन्तमप्रतिहतं ज्ञेयस्थितौ दर्शनम्, दोषत्यक्तमनन्तमुत्तमतमोऽनन्तः सुखानां चयः । वीर्यस्यानुपमः स कोऽपि महिमाऽनन्तस्त्रिलोकाद्भुतः; सिद्धत्वे प्रथितः प्रभुः स भगवान् धन्यैः सदा ध्यायते ।।६६।।