________________
१-देवतत्त्वम् गा-३७, ३८, ३९
देव० : स्पष्टा, नवरमुपयुक्तोऽवहितो वर्णितविधावेव सोपयोगस्यैव भाववन्दनाभ्युपगमेन फलावाप्तेः । यदाह -
वदंतो सम्मं चेइयाइं सुहज्झाणपगरिसं लहइ । तत्तो य कम्मनासं पणट्ठकम्मो य निव्वाणं ।। [ ] इति ।।३६।।
* प्रवचनसारोद्धारे-६८ * इय दहतियसंजुत्तं वंदणयं जो जिणाण तिक्कालं ।
कुणइ नरो उवउत्तो सो पावइ निज्जरं विउलं ।। 'तिन्नि निसीही'त्यादि गाथात्रयम्, अत्रैतद्गाथाद्वयप्रतिपादितानि दश च तानि त्रिकाणि च तैः संयुक्तं 'तियदहसंजुत्त'मिति पाठे त्रिकाणां दशकं तेन संयुक्तमिति व्याख्येयम्, वन्दनकं यः कश्चिद्रव्यो जिनानांतीर्थकृतां त्रिकालं त्रिसन्ध्यं करोत्युपयुक्तः सोपयोगः सन् स प्राप्नोति सर्वकर्मक्षयकरी मोक्षलक्ष्मीविधायिनी च निर्जरां विपुलामिति, कुत्रापि 'सो पावइ सासयं ठाणं' इति पाठः, तत्रापि शाश्वतं स्थानं मोक्षमित्यर्थः ।।६८।।
चक्रे० : अथ १-पूजा२-अवस्था३-वर्णादि४-मुद्रा५-प्रणिधानत्रिकाणि सार्द्धगाथाद्वयेनाहः -
देव० : अथ १-पूजा २-अवस्था ३-वर्णादि ४-मुद्रा ५-प्रणिधानत्रिकाणि सार्द्धन गाथाद्वयेन विवृणोति -
पुप्फाऽऽमिसथुइभेया तिविहा पूया अवत्थतिययं तु । होइ छउमत्थकेवलिसिद्धत्तं भुवणनाहस्स ।।३७।। वनाइतियं तु पुणो वनत्थालंबणस्सरूवं तु । मणवयणकायजणियं तिविहं पणिहाणमवि होइ ।।३८।। मुद्दातियं तु इत्थं विनेयं होइ जोगमुद्दाई ।
हरिभद्दसूरिविरइयगंथम्मि इमं जओ भणियं ।।३९।। चक्रे० : पुष्पामिषस्तुतिभेदात्त्रिविधा पूजा, तत्र पुष्पग्रहणेन गन्धधूपस्नपनविलेपनवस्त्राभरणादीन्युपलक्ष्यन्ते । आमिषं नैवेद्यमनेनाप्यखण्डाक्षतफलजलघृतप्रदीपादीनि । स्तुतिः श्लोकवृत्यात्मिका । अवस्थात्रिकं तु छद्मस्थकेवलिसिद्धत्वाख्यं भवति भुवननाथस्य छद्मस्थावस्था केवल्यवस्था सिद्धत्वावस्था चेत्यर्थः ।।३७।। १. अवत्थतियगं तु P.K