________________
१-देवतत्त्वम् गा-३३
भणनादित्याधुक्तप्रायम्, परिभाव्यमत्रागमाद्यविरोधि, वृद्धसंप्रदायात्तु संप्रति स्त्रीणां वस्त्रत्रयं विना देवाचा कर्तुं न कल्पते, तथा अन्यैरप्युक्तं-'न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन च' इति ४, अञ्जलिबन्धश्च कार्यः शिरसि मस्तके जिने दृष्टे जिनबिम्बदर्शने सतीति गाथार्थः ।।२०।।
चक्रे० : तमेवाहुः - देव० : तमेवाह -
अवहट्ट रायककुहाइं पंच वररायककुहरूवाइं ।
खग्गं छत्तोवाणह मउडं तह चामराओ य ।।३३।। चक्रे० : अपहत्य मुक्त्वा राजककुदानि नृपचिह्नानि । 'पंचवररायककुहरूवाणि' वररागककुभं रूपयन्तीति वररागककुभरूपाणि प्रबलरागादिकथकानीत्यर्थः, खड्गछत्रोपानन्मुकुटाख्यान्येकत्वं प्राकृतत्वात्, तथा चामरे च ।।३३।।
देव० : अपहत्य मुक्त्वा राजककुदानि नृपचिह्नानि कति ? पञ्च किं सामान्यनृपचिह्नानि ? नेत्याह-वरराजककुदरूपाणि, बद्धमुकुटनरेन्द्रलक्षणस्वरूपाणि तान्येवाह-खड्गं कृपाणम्, छत्रोपानन्मुकुटमिति द्वन्द्वैकवद्भावः । तत्र छत्रमातपत्रम्, उपानही पादुके, मुकुटं किरीटं चामरे च प्रतीते । स्त्रीत्वमत्र प्राकृतवशाद्, राजादेर्जिनगृहप्रवेश इत्युत्तरक्रियाप्रक्रमः । चकारः पूर्वाभिगमपरिग्रहार्थ इति गाथार्थः ।।३३।।
* सङ्घाचारभाष्ये-२१ * इय पंचविहाभिगमो अहवा मुचंति रायचिह्नाइं ।
खग्गं छत्तोवाणह मउडं चमरे अ पंचमए ।। इति पूर्वोक्तप्रकारेण पञ्चप्रकारोऽभिगमो भवति, उक्तं च श्रीपञ्चमाङ्गे-"पंचविहेण अभिगमेणं अभिगच्छइ, तंजहा - १-सञ्चित्ताणं दव्वाणं विउसरणयाए २-अचित्ताणं दव्वाणं अविउसरणयाए ३-एगसाडएणं उत्तरासंगकरणेणं ४-चक्खुप्फासे अंजलिपग्गहेण ५-मणसो एगत्तीभावकरणेण" क्वचित्तु 'अचित्ताणं दव्वाणं विउसरणयाए'त्ति पाठः, तत्राचित्तानां छत्रादीनां व्यवसरणेन व्युत्सर्जनेनेत्यर्थः, अन्यत्राप्युक्तम्पुप्फतंबोलमाईणि, सचित्ताणि विवज्जए । छत्तवाहणमाईणि, अचित्ताणि तहेव य ।। त्ति
एतदर्थप्रतिपादनार्थमाह-'अहवेत्यादि, यद्वा यो महद्धिको राजादिश्चैत्यं प्रविशति स पञ्चविधाभिगमसमये राजचिह्नान्यपि मुञ्चतीत्यत आह-अहवेत्यादि, अथवा विकल्पान्तरसूचकः, न केवलं सचित्तान्येव