________________
४४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
द्रव्याणि मुच्यन्ते, किं तर्हि ?, अचित्तान्यपि द्रव्याणि मुच्यन्ते-दूरीक्रियन्ते, कानि ? राजचिह्नानिराजलक्षणानि, तान्येवाह-१-खड्ग: कृपाणः, २-छत्रं आतपत्रः, ३-उपानही पादुके, ४-मुकुटं किरीट:, ५-चामरा-बालव्यजनानि पञ्चमका इति, तथा च सिद्धान्तः -
अवहट्ट रायककुहाइं पंच वररायककुहभूयाइं । खग्गं छत्तोवाणह मउडं तह चामराओ य ।। त्ति चक्रे० : सम्प्रति पूर्वसूचितत्रिकाण्याहुः - देव० : सम्प्रति पूर्वसूचितदशत्रिकाण्याह -
तिन्नि निसीहि य तिन्नि य पयाहिणा तिनि चेव य पणामा । तिविहा पूया य तहा अवत्थतियभावणं चेव ।।३४।। तिदिसिनिरिक्खणविरई तिविहं भूमीपमज्जणं चेव ।
वनाइतियं मुद्दातियं च तिविहं च पणिहाणं ।।३५।। चक्रे० : १-सावधव्यापारनिषेधेन निर्वृत्ता नैषेधिक्यस्तास्तिस्रो द्वारे मध्ये गर्भगृहे च। २-दक्षिणाद्दक्षिणहस्तादारभ्य प्रगतं यासु क्रियासु ताः प्रदक्षिणाः प्रसिद्धास्तिस्रश्च। ३-त्रयश्चैव प्रणामा भूमौ मू श्लेषणरूपाः ४-त्रिविधा पूजा च। तथा ५-अवस्थात्रिकभावनं चैव वक्ष्यमाणम् ।।३४।।
तथा ६-तिस्रो दिश ऊर्ध्वाधस्तिर्यग्लक्षणास्तनिरीक्षणविरतिर्जिनबिम्बसन्मुखमेवावलोकनीयमिति हृदयम् । ७-त्रिविधं भूमिप्रमार्जनम्, चरणयोरधोऽन्तराले च । ८-वर्णादित्रिकम्, ९-मुद्रादित्रिकं च, १०-त्रिविधं च प्रणिधानं वक्ष्यमाणस्वरूपम् । एतानि च त्रिकाणि प्रायेणोक्तक्रमेणैव कार्याणि ।।३५ ।।
देव० : सावधव्यापारनिषेधेन निर्वृत्ता नैषेधिक्यस्तास्तिस्रो द्वारे मध्ये गर्भगृहे च, दक्षिणाद्दक्षिणहस्तादारभ्य प्रगतं यासु क्रियासु ताः प्रदक्षिणाः प्रतीतास्तिस्रः, चः समुच्चये, अत्र च सूत्रे क्वचिदनुपलम्भादिति प्रलपन्तः स्थापनार्हत्प्रदक्षिणां प्रति विप्रतिपद्यन्ते केचन, तच्चायुक्तम्, साक्षादर्हति प्रतिपादितत्वेन तद्विम्बेष्वपि तद्बुद्धिजनकेषु युज्यमानत्वात्, यदि चागमानभिहितत्वेन न विधीयेरंस्तदा चैत्याश्रयेण पञ्चविधाभिगमस्याप्यनभिहितत्वान्न विधेयता स्यात्, विधीयते चासौ । किं च जीवाभिगमसूत्रे विजयदेववक्तव्यतायां प्रतिमाप्रदक्षिणाया अपि १. दक्षिणात् प्रदक्षिणीय A.T,B,C २. आचरणप्रसिद्धाः T,B.C